________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 401 // दशममध्ययनं सभिक्षुः, नियुक्तिः 331 सकारनिक्षेपाः। नियुक्तिः 332-333 भिक्षुनिक्षेपनिरूक्तादि द्वाराणि। ये भावाः पदार्थाः पृथिव्यादिसंरक्षणादयो दशवैकालिके प्रस्तुते शास्त्रे करणीया अनुष्ठेया वर्णिताः कथिता जिनैः- तीर्थकरगणधरैः, तेषां भावानां समापने यथाशक्त्या(क्ति) द्रव्यतो भावतश्चाचरणेन पर्यन्तनयनेन यो भिक्षुः तदर्थं यो भिक्षणशीलोन तूदरादिभरणार्थं भण्यते स भिक्षुरिति, इतिशब्दस्य व्यवहित उपन्यासः / स भिक्षुरित्यत्र निर्देशे सकार इति गाथार्थः / / 330 // प्रशंसायामाह नि०-चरगमरुगाइआणं भिक्खुजीवीण काउणमपोहं / अज्झयणगुणनिउत्तो होइ पसंसाइ उसभिक्खू // 331 // चरकमरुकादीना मिति चरका:- परिव्राजकविशेषाः मरुका-धिग्वर्णाः,आदिशब्दाच्छाक्यादिपरिग्रहः,अमीषां भिक्षोपजीविनां भिक्षणशीलानामगुणवत्त्वेनापोहं कृत्वा अध्ययनगुणनियुक्तः प्रक्रान्तशास्त्रनिष्यन्दभूतप्रक्रान्ताध्ययनाभिहितगुणसमन्वितो भवति / प्रशंसायामवगम्यमानायां सद्भिक्षुः- संश्चासौ भिक्षुश्च तत्तदन्यापोहेन सद्भिक्षुरिति गाथार्थः // 331 // उक्तः सकारः, इदानी भिक्षुमभिधातुकाम आह नि०-भिक्खुस्स य निक्खेवो निरुत्तएगट्ठिआणि लिंगाणि। अगुणट्ठिओन भिक्खू अवयवा पंच दाराई॥३३२॥ भिक्षोः निक्षेपो नामादिलक्षणः कार्यः, तथा निरुक्तं वक्तव्यं भिक्षोरेव, तथा एकार्थिकानि पर्यायशब्दरूपाणि वक्तव्यानि, तथा लिङ्गानि संवेगादीनि, तथा अगुणस्थितो न भिक्षुरपि तु गुणस्थित एवेत्येतद्वाच्यम् / अत्र च अवयवाः पञ्च प्रतिज्ञादयो वक्ष्यमाणा इति, द्वाराण्येतानीति गाथासमासार्थः।। 332 // यथाक्रमं व्यासार्थमाह नि०-णामंठवणाभिक्खू दव्वभिक्खू अभावभिक्खू / दव्वम्मि आगमाई अन्नोऽवि अपज्जवो इणमो॥३३३॥ नामस्थापनाभिक्षु रिति भिक्षुशब्दः प्रत्येकमभिसंबध्यते, नामभिक्षुः स्थापनाभिक्षुः द्रव्यभिक्षुश्च भावभिक्षुश्चेति / // 401 //