________________ श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् // 400 // दशममध्ययनं सभिक्षुः, नियुक्तिः 328-329 अभिसम्बन्धः सकारनिक्षेपाः नियुक्तिः 330 सकारनिक्षेपाः। ॥अथ दशममध्ययनं सभिक्ष्वाख्यम्॥ अधुना सभिक्ष्वाख्यमारभ्यते, अस्य चायमभिसंबन्धः, इहानन्तराध्ययन आचारप्रणिहितो यथोचितविनयसंपन्नो भवति एतदुक्तम्, इह त्वेतेष्वेव नवस्वध्ययनार्थेषु यो व्यवस्थितःस सम्यग्भिक्षुरित्येतदुच्यते, इत्यनेनाभिसंबन्धेनायातमिदमध्ययनम्, अस्य चानुयोगद्वारोपन्यासः पूर्ववत्तावद्यावन्नामनिष्पन्नो निक्षेपः, तत्र च सभिक्षुरित्यध्ययननाम, अतः सकारो निक्षेप्तव्यो भिक्षुश्च, तत्र सकारनिक्षेपमाह नि०- नामंठवणसयारो दव्वे भावे अहोइ नायव्वो। दव्वे पसंसमाई भावे जीवो तदुवउत्तो॥३२८ // नामसकारः सकार इति नाम, स्थापनासकारः सकार इति स्थापना, द्रव्ये भावे च भवति ज्ञातव्यः द्रव्यसकारो भावसकारश्च, तत्र द्रव्य इत्यागमनोआगमज्ञशरीरभव्यशरीरतद्व्यतिरिक्तः प्रशंसादिविषयो द्रव्यसकारः, भाव इति भावसकारो जीवः तदुपयुक्तः सकारोपयुक्तः तदुपयोगानन्यत्वादिति गाथार्थः ॥३२८॥प्रकृतोपयोगीत्यागमनोआगमज्ञशरीरभव्यशरीरातिरिक्तं प्रशंसादिविषयं द्रव्यसकारमाह नि०- निद्देसपसंसाए अत्थीभावे अहोइ उसगारो। निद्देसपसंसाए अहिगारो इत्थ अज्झयणे // 329 // निर्देशे प्रशंसायामस्तिभावे चेत्येतेष्वर्थेषु त्रिषु भवति तु सकारः। तत्र निर्देशे यथा सोऽनन्तरमित्यादि, प्रशंसायां यथा सत्पुरुष इत्यादि, अस्तिभावे यथा सद्भूतममुकमित्यादि। तत्र निर्देशप्रसंशाया मिति निर्देशे प्रशंसायांच यःसकारस्तेनाधिकारोऽत्राध्ययने प्रक्रान्त इति गाथार्थः // 329 // एतदेव दर्शयति नि०-जे भावा दसवेआलिअम्मि करणिज्ज वण्णिअजिणेहि। तेसिं समावणंमिति (मी) जो भिक्खू भन्नइ स भिक्खू॥३३०॥ // 400 //