SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 399 // 4-7 तपः समाध्याचार रीहः सन् यथा मोक्ष एव भवतीति चतुर्थं पदं भवति। भवति चात्र श्लोक इति पूर्ववत् // स चायं- जिनवचनरत आगमे सक्तः नवममध्ययनं अतिन्तिनः न सकृत्किञ्चिदुक्तः सन्नसूयया भूयो भूयो वक्ता प्रतिपूर्णः सूत्रादिना, आयतमायतार्थिक इत्यत्यन्तं मोक्षार्थी विनयसमाधिः, चतुर्थोद्देशकः आचारसमाधिसंवृत इति आचारे यः समाधिस्तेन स्थगिताश्रवद्वारः सन् भवति दान्त इन्द्रियनोइन्द्रियदमाभ्यां भावसंधकः भावो सूत्रम् मोक्षस्तत्सन्धक आत्मनो मोक्षासन्नकारीति सूत्रार्थः॥५॥ सर्वसमाधिफलमाह-अभिगम्य विज्ञायासेव्य च चतुरः समाधीन् / अनन्तरोदितान्, सुविशुद्धो मनोवाक्कायैः, सुसमाहितात्मा सप्तदशविधे संयमे, एवंभूतो धर्मराज्यमासाद्य विपुलहितसुखावह पुन रिति विपुलं- विस्तीर्णं हितं तदात्वे आयत्यां च पथ्यं सुखमावहति-प्रापयति यत्तत् तथाविधं करोत्यसौ साधुः पदं- समाधिस्थानं क्षेम-शिवं आत्मन इत्यात्मन एव न त्वन्यस्य इत्यनेनैकान्तक्षणभङ्गव्यवच्छेदमाहेति सूत्रार्थः॥६॥एतदेव स्पष्टयतिजातिमरणात् संसारान्मुच्यते असौ सुसाधुः इत्थंस्थं चेती दंप्रकारमापन्नमित्थं इत्थं स्थितमित्थंस्थं- नारकादिव्यपदेशबीज वर्णसंस्थानादि तच्च त्यजति सर्वशः सर्वैः प्रकारैरपुनर्ग्रहणतया एवं सिद्धो वा कर्मक्षयात्सिद्धो भवति शाश्वतः अपुनरागामी सावशेषकर्मा देवो वा अल्परतः कण्डूपरिगतकण्डूयनकल्परतरहितः महर्द्धिकः अनुत्तरवैमानिकादिः / ब्रवीमीति पूर्ववदिति सूत्रार्थः, उक्तोऽनुगमः, नयाः पूर्ववत् // 7 // इति चतुर्थः॥४॥ चतुर्थोद्देशकः समाप्तः॥ स्थानम्। ॥सूरिपुरन्दरश्रीमद्धरिभद्रसूरिविरचितायां दशवैकालिकबृहद्वृत्ती नवममध्ययनं विनयसमाध्याख्यं समाप्तमिति॥
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy