________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् | // 398 // नवममध्ययनं | विनयसमाधिः, चतुर्थोद्देशकः सूत्रम् 5-7 समाध्याचार स्थानम्। इहलोकनिमित्तं लब्ध्यादिवाञ्छया तपःअनशनादिरूपं अधितिष्ठेत् न कुर्याद्धर्मिलवत् 1, तथा न परलोकार्थं जन्मान्तरभोगनिमित्तं तपोऽधितिष्ठेद्ब्रह्मदत्तवत्, एवं न कीर्तिवर्णशब्दश्लाघार्थ मिति सर्वदिग्व्यापी साधुवादः कीर्तिः एकदिग्व्यापी वर्णः, अर्द्धदिग्व्यापी शब्दः, तत्स्थान एव श्लाघा, नैतदर्थं तपोऽधितिष्ठेत्, अपि तु नान्यत्र निर्जरार्थ मिति न कर्मनिर्जरामेकां विहाय तपोऽधितिष्ठेत्, अकामः सन् यथा कर्मनिरैव फलं भवति तथाऽधितिष्ठेदित्यर्थः चतुर्थं पदं भवति / भवति चात्र श्लोक इति पूर्ववत् / स चायं-विविधगुणतपोरतो हि नित्यं- अनशनाद्यपेक्षयाऽनेकगुणं यत्तपस्तद्रत एव सदा भवति निराशो निष्प्रत्याश इहलोकादिषु निर्जरार्थिकः कर्मनिर्जरार्थी, स एवंभूतस्तपसा विशुद्धेन धुनोति अपनयति पुराणपापं चिरन्तनं कर्म, नवं च न बध्नात्येवं युक्तः सदा तपःसमाधाविति सूत्रार्थः॥४॥ चउब्विहा खलु आयारसमाही भवइ, तंजहा- नो इहलोगट्ठयाए आयारमहिट्ठिज्जा 1, नो परलोगट्ठयाए आयारमहिट्ठिज्जा 2, नो कित्तिवण्णसद्दसिलोगट्ठयाए आयारमहिट्ठिज्जा 3, नन्नत्थ आरहंतेहिं हेऊहिं आयारमहिट्ठिज्जा ४चउत्थं पयं भवइ। भवइ अइत्थ सिलोगो-जिणवयणरए अतिंतिणे, पडिपुन्नाययमाययट्ठिए।आयारसमाहिसंवुडे, भवइ अदंते भावसंधए।सूत्रम् 5 // अभिगम चउरोसमाहिओ, सुविसुद्धोसुसमाहिअप्पओ। विउलहिअंसुहावहं पुणो, कुव्वइ असोपयखेममप्पणो॥सूत्रम्६॥ जाइमरणाओ मुच्चइ, इत्थंथं च चएइ सव्वसो। सिद्धे वा हवइ सासए, देवे वा अप्परए महड्डिए।सूत्रम् // त्तिबेमि॥चउत्थो उद्देसो समत्तो॥४॥विणयसमाहीणामज्झयणंसमत्तं // 9 // उक्तस्तपःसमाधिः, आचारसमाधिमाह- चतुर्विधः खल्वाचारसमाधिर्भवति, तद्यथे त्युदाहरणोपन्यासार्थः, नेहलोकार्थमित्यादि चाचाराभिधानभेदेन पूर्ववद्यावन्नान्यत्र आर्हतैः अर्हत्संबन्धिभिर्हेतुभिरनाश्रवत्वादिभिः आचारं मूलगुणोत्तरगुणमयमधितिष्ठेन्नि // 398 //