________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् / // 394 // 6000) नोभावयेद् अकुशलभावनया परम्, यथाऽमुकपुरतो भवताऽहं वर्णनीयः नापि च भावितात्मा स्वयमन्यपुरतः स्वगुण- नवममध्ययनं वर्णनापरः अकौतुकश्च सदा नटनर्त्तकादिषु यः स पूज्य इति सूत्रार्थः॥ 10 // किंच- गुणैः अनन्तरोदितैर्विनयादिभिर्युक्तः विनयसमाधिः, तृतीयोद्देशकः साधुर्भवति, तथा अगुणैः उक्तगुणविपरीतैरसाधुः, एवं सति गृहाण साधुगुणान् मुश्चासाधुगुणानिति शोभन उपदेशः, एवमधिकृत्य सूत्रम् प्राकृतशैल्या विज्ञापयति विविधं ज्ञापयत्यात्मानमात्मना यः तथा रागद्वेषयोः समः न रागवान द्वेषवानिति स पूज्य इति सूत्रार्थः॥ 8-15 11 // किं च- तथैवे ति पूर्ववत्, डहरं वा महल्लकं वा, वाशब्दान्मध्यमं वा, स्त्रियं पुमांसमुपलक्षणत्वान्नपुंसकं वा प्रव्रजितं विनीतस्य पूज्यत्वोगृहिणं वा, वाशब्दादन्यतीर्थिकं वा न हीलयति नापि च खिंसयति तत्र सूयया असूयया वा सकृद्दुष्टाभिधानं हीलनम्, पदर्शनम्। तदेवासकृत्खिंसनमिति / हीलनखिंसनयोश्च निमित्तभूतं स्तम्भं च मानं च क्रोधं च रोषं च त्यजति यः स पूज्यो, निदानत्यागेन तत्त्वतः कार्यत्यागादिति सूत्रार्थः॥ 12 // किं च- ये मानिता अभ्युत्थानादिसत्कारैः सततं अनवरतं शिष्यान् मानयन्ति श्रुतोपदेशं प्रति चोदनादिभिः, तथा यत्नेन कन्यामिव निवेशयन्ति यथा मातापितरः कन्यां गुणैर्वयसा च संवर्य योग्यभर्तरिक स्थापयन्ति एवमाचार्याः शिष्यं सूत्रार्थवेदिनं दृष्टा महत्याचार्यपदेऽपिस्थापयन्ति / तानेवंभूतान् गुरून्मानयति योऽभ्युत्थानादिना मानार्हान् मानयोग्यान तपस्वी सन् जितेन्द्रियः सत्यरत इति, प्राधान्यख्यापनार्थं विशेषणद्वयम्, स पूज्य इति सूत्रार्थः // 13 // तेषां गुरूणां अनन्तरोदितानां गुणसागराणां गुणसमुद्राणां संबन्धीनि श्रुत्वा मेधावी सुभाषितानि परलोकोपकारकाणि चरति आचरति मुनिः साधुः पञ्चरतः पञ्चमहाव्रतसक्तः त्रिगुप्तो मनोगुप्त्यादिमान् चतुःकषायापगत इत्यपगतक्रोधादिकषायो यः सब 394 // पूज्य इति सूत्रार्थः // 14 // प्रस्तुतफलाभिधानेनोपसंहरन्नाह- गुरुं आचार्यादिरूपं इह मनुष्यलोके सततं अनवरतं परिचर्य विधिनाऽऽराध्य मुनिः साधुः, किंविशिष्टो मुनिरित्याह- जिनमतनिपुणः आगमे प्रवीणः अभिगमकुशलो लोकप्राघूर्णकादि