________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् / / 395 // समाधि प्रतिपत्तिदक्षः, स एवंभूतः विधूय रजोमलं पुराकृतम्, क्षपयित्वाऽष्टप्रकारं कर्मेति भावः, किमित्याह- भास्वरांज्ञानतेजोमयत्वात् नवममध्ययनं अतुला अनन्यसदृशीं गतिं सिद्धिरूपां व्रजती ति गच्छति तदा जन्मान्तरेण वा सुकुलप्रजात्यादिना प्रकारेण / ब्रवीमीति विनयसमाधिः, पूर्ववदिति सूत्रार्थः॥१५॥॥ तृतीयोद्देशकः समाप्तः। चतुर्थोद्देशकः सूत्रम् चत्वारि ॥नवमाध्ययने चतुर्थोद्देशकः॥ विनयसुअंमे आउसं! तेणं भगवया एवमक्खायं- इह खलु थेरेहिं भगवंतेहिं चत्तारि विणयसमाहिट्ठाणा पन्नत्ता, कयरे खलु ते थेरेहिं स्थानानि। भगवंतेहिं चत्तारि विणयसमाहिठाणा पन्नत्ता?, इमेखलु ते थेरेहिं भगवंतेहिं चत्तारि विणयसमाहिट्ठाणा पन्नत्ता, तंजहा-विणयसमाही सुअसमाही तवसमाही आयारसमाही। विणए सुए अतवे, आयारे निच्चपंडिआ। अभिरामयंति अप्पाणं, जे भवंति जिइंदिआ॥ सूत्रम् 1 // अथ चतुर्थ आरभ्यते, तत्र सामान्योक्तविनयविशेषोपदर्शनार्थमिदमाह- श्रुतं मया आयुष्मंस्तेन भगवता एवमाख्यातमित्येतद्यथा षड्जीवनिकायां तथैव द्रष्टव्यम्, इह खल्वि ति इह क्षेत्रे प्रवचने वा खलुशब्दो विशेषणार्थः, न केवलमत्र किं. त्वन्यत्राप्यन्यतीर्थकृत्प्रवचनेष्वपि स्थविरैः गणधरैः भगवद्भिः परमैश्वर्यादियुक्तैश्चत्वारि विनयसमाधिस्थानानि विनयसमाधिभेदरूपाणि प्रज्ञप्तानि प्ररूपितानि, भगवतः सकाशे श्रुत्वा ग्रन्थत उपरचितानीत्यर्थः, कतराणि खलु तानीत्यादिना प्रश्नः, अमूनि खलु तानीत्यादिना निर्वचनम्, तद्यथे त्युदाहरणोपन्यासार्थः, विनयसमाधिः 1 श्रुतसमाधिः 2 तपःसमाधिः 3 आचारसमाधिः 4, तत्र समाधानं समाधिः- परमार्थत आत्मनो हितं सुखं स्वास्थ्यम्, विनये विनयाद्वा समाधिः विनयसमाधिः, एवं शेषेष्वपि // 395