SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकं| श्रीहारि० वृत्तियुतम् // 392 // नवममध्ययनं विनयसमाधिः, तृतीयोद्देशकः सूत्रम् 8-15 विनीतस्य पूज्यत्वो पदर्शनम्। परिदेवयेत् न खेदं यायात्, यथा-मन्दभाग्योऽहमशोभनो वाऽयं देश इति, एवं विभागतश्च लब्ध्वा प्राप्योचितं न विकत्थते न श्लाघां करोति- सपुण्योऽहं शोभनो वाऽयं देश इत्येवं स पूज्य इति सूत्रार्थः॥४॥ किं च- संस्तारकशय्यासनभक्तपानानि प्रतीतान्येव, एतेषु अल्पेच्छता अमूर्च्छया परिभोगोऽतिरिक्ताग्रहणंवा अतिलाभेऽपि सति संस्तारकादीनांगृहस्थेभ्यः सकाशात् य एवमात्मानं अभितोषयति येन वा तेन वायापयति संतोषप्राधान्यरतः संतोष एव प्रधानभावे सक्तः स पूज्य इति सूत्रार्थः॥५॥ इन्द्रियसमाधिद्वारेण पूज्यतामाह- शक्याः सोढुं आशये ति इदं मे भविष्यतीति प्रत्याशया, क इत्याह- कण्टका अयोमया लोहात्मका: उत्सहता नरेण अर्थोद्यमवतेत्यर्थः, तथा च कुर्वन्ति केचिदयोमयकण्टकास्तरणशयनमप्यर्थलिप्सया, न तु वाक्कण्टकाःशक्या इत्येवं व्यवस्थिते अनाशया फलप्रत्याशया निरीहः सन् यस्तु सहेत कण्टकान् वाङ्मयान् खरादिवागात्मकान् कर्णसरान् कर्णगामिनः स पूज्य इति सूत्रार्थः॥६॥ एतदेव स्पष्टयति- मुहूर्तदुःखा अल्पकालदुःखा भवन्ति कण्टका अयोमयाः, वेधकाल एव प्रायो दुःखभावात्, तेऽपि ततः कायात् सूद्धराः सुखेनैवोद्धियन्ते व्रणपरिकर्म च क्रियते, वाग्दुरुक्तानि पुनः दुरुद्धराणि दुःखेनोद्धियन्ते मनोलक्षवेधनाद् वैरानुबन्धीनि तथाश्रवणप्रद्वेषादिनेह परत्र च वैरानुबन्धीनि भवन्ति, अत एव महाभयानि, कुगतिपातादिमहाभयहेतुत्वादिति सूत्रार्थः।। 7 // समावयंता वयणाभिघाया, कन्नंगया दुम्मणिअंजणंति। धम्मुत्ति किच्चा परमग्गसूरे, जिइंदिए जो सहई स पुजो॥सूत्रम् 8 // अवण्णवायं च परम्मुहस्स, पच्चक्खओ पडिणीअंच भासं / ओहारणिं अप्पिअकारिणिं च, भासं न भासिज्ज सया स पुजो॥ सूत्रम् 9 // अलोलुए अक्कुहए अमाई, अपिसुणे आवि अदीणवित्ती। नोभावएनोऽविअभाविअप्पा, अकोउहल्ले असयास पुजो॥सूत्रम् // 392 // 10 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy