SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 391 // साम्प्रतं तृतीय आरभ्यते, इह च विनीतः पूज्य इत्युपदर्शयन्नाह- आचार्य सूत्रार्थप्रदंतत्स्थानीयं वाऽन्यं ज्येष्ठार्यम्, किमि- नवममध्ययन त्याह- अग्निमिव तेजस्कायमिव आहिताग्निः ब्राह्मणः शुश्रूषमाणः सम्यक्सेवमानः प्रतिजागृयात् तत्तत्कृत्यसंपादनेनोपचरेत् / / विनयसमाधिः, तृतीयोद्देशकः आह- यथाऽऽहिताग्निरित्यादिना प्रागिदमुक्तमेव, सत्यम्, किं तु तदाचार्यमेवाङ्गीकृत्य इदं तु रत्नाधिकादिकमप्यधि सूत्रम् कृत्योच्यते, वक्ष्यति च-रायणीएसुविणय'मित्यादि, प्रतिजागरणोपायमाह- आलोकितं निरीक्षितं इङ्गितमेव च अन्यथावृत्ति- 1-7 विनीतस्य लक्षणं ज्ञात्वा विज्ञायाचाीयं यः साधुः छन्दः अभिप्रायमाराधयति / यथा शीते पतति प्रावरणावलोकने तदानयने, इङ्गिते पूज्यत्वोवा निष्ठीवनादिलक्षणेशुण्ठ्याद्यानयनेन स पूज्यः स इत्थंभूतःसाधुः पूजार्हः, कल्याणभागिति सूत्रार्थः॥१॥प्रक्रान्ताधिकार पदर्शनम्। एवाह- आचारार्थं ज्ञानाद्याचारनिमित्तं विनयं उक्तलक्षणं प्रयुक्ते करोति यः शुश्रूषन् श्रोतुमिच्छन्, किमयं वक्ष्यतीत्येवम् / तदनु तेनोक्ते सति परिगृह्य वाक्यं आचार्गीयं ततश्च यथोपदिष्टं यथोक्तमेव अभिकाङ्क्षन् मायारहितः श्रद्धया कर्तुमिच्छन् विनयं प्रयुङ्क्ते, अतोऽन्यथाकरणेन गुरुं त्वि ति आचार्यमेव नाशातयति न हीलयति यः स पूज्य इति सूत्रार्थः॥२॥ किंचरत्नाधिकेषु ज्ञानादिभावरत्नाभ्युच्छ्रितेषु विनयं यथोचितं प्रयुङ्क्ते करोति, तथा डहरा अपि च ये वयःश्रुताभ्यां पर्यायज्येष्ठाः। चिरप्रव्रजितास्तेषु विनयं प्रयुङ्क्ते, एवं च यो नीचत्वे गुणाधिकान् प्रति नीचभावे वर्त्तते सत्यवादी अविरुद्धवक्ता तथा अवपातवान् वन्दनशीलो निकटवर्ती वा एवं च यो वाक्यकरो गुरुनिर्देशकरणशीलः स पूज्य इति सूत्रार्थः॥३॥ किं चअज्ञातोञ्छं परिचयाकरणेनाज्ञातः सन् भावोञ्छं गृहस्थोद्धरितादि चरति अटित्वाऽऽनीतं भुङ्क्ते, न तु ज्ञातस्तद्बहुमतमिति, एतदपि विशुद्धं उद्गमादिदोषरहितम्, न तद्विपरीतम्, एतदपि यापनार्थं संयमभरोद्वाहिशरीरपालनाय नान्यथा समुदानंच उचितभिक्षालब्धं च नित्यं सर्वकालं न तूञ्छमप्येकत्रैव बहुलब्धं कादाचित्कं वा, एवंभूतमपि विभागतः अलब्ध्वा अनासाद्य न // 391 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy