________________ श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् / / 388 // नवममध्ययनं विनयसमाधिः, द्वितीयोद्देशकः सूत्रम् 17-20 विनयोपायम्। नीअंसिखं गई ठाणं, नीअंच आसणाणि अ। नीअंच पाए वंदिल्जा, नीअंकुजा अ अंजलिं॥सूत्रम् 17 // संघट्टइत्ता काएणं, तहा उवहिणामवि / खमेह अवराहं मे, वइज्ज न पुणुत्ति अ॥ सूत्रम् 18 // दुग्गओवा पओएणं, चोइओ वहई रहं / एवं दुबुद्धि किच्चाणं, वुत्तो वुत्तो पकुव्वई॥सूत्रम् 19 // 'आलवंते लवंते वा, न निसिज्जाइ पडिस्सुणे / मुत्तूण आसणं धीरो, सुस्सूसाए पडिस्सुणे॥' कालं छंदोवयारंच, पडिलेहिताण हेउहिं। तेण तेण उवाएणं, तं तं संपडिवायए।सूत्रम् 20 // विनयोपायमाह-नीचां शय्यां संस्तारकलक्षणामाचार्यशय्यायाः सकाशात्कुर्यादिति योगः, एवं नीचां गतिं आचार्यगतेः, तत्पृष्ठतो नातिदूरेण नातिद्रुतं यायादित्यर्थः, एवं नीचंस्थानमाचार्यस्थानात्, यत्राचार्य आस्ते तस्मान्नीचतरे स्थाने स्थातव्यमिति भावः। तथा नीचानि लघुतराणि कदाचित्कारणजाते आसनानि पीठकानि तस्मिन्नुपविष्टे तदनुज्ञातः सेवेत, नान्यथा, तथा नीचं च सम्यगवनमोत्तमाङ्गः सन् पादावाचार्यसत्कौ वन्देत, नावज्ञया, तथा क्वचित्प्रश्नादौ नीचं नम्रकायं 'कुर्यात् संपादयेच्चाञ्जलिम्, न तुस्थाणुवस्तब्ध एवेति सूत्रार्थः॥१७॥एवं कायविनयमभिधाय वाग्विनयमाह-संघट्टिय स्पृष्टा कायेन देहेन कथंचित्तथाविधप्रदेशोपविष्टमाचार्य तथा उपधिनापि कल्पादिना कथंचित्संघट्य मिथ्यादुष्कृतपुरःसरमभिवन्द्य क्षमस्व सहस्व अपराधं दोषं मे मन्दभाग्यस्यैवं वदे ब्रूयात् न पुनरिति च नाहमेनं भूयः करिष्यामीति सूत्रार्थः॥१८॥ एतच्च बुद्धिमान् स्वयमेव करोति, तदन्यस्तु कथमित्याह- दुर्गौरिव गलिबलीवईवत् प्रतोदेन आरादण्डलक्षणेन चोदितो विद्धः सन् वहति नयति क्वापिरथं प्रतीतम्, एवं दुर्गौरिव दुर्बुद्धिः अहितावहबुद्धिः शिष्यः कृत्यानां आचार्यादीनां कृत्यानि वा' तदभिरुचितकार्याणि उक्त उक्तः पुनः पुनरभिहित इत्यर्थः, प्रकरोति निष्पादयति प्रयुङ्क्ते चेति सूत्रार्थः॥१९॥ एवं च कृतान्यमूनि न शोभनानी // 388 //