________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 387 // किं पुण जे सुअग्गाही, अणंतहिअकामए / आयरिआ जं वए भिक्खू, तम्हा तं नाइवत्तए।सूत्रम् 16 // नवममध्ययनं एवं नारकापोहेन व्यवहारतो येषु सुखदुःखसंभवस्तेषु विनयाविनयफलमुक्तम्, अधुना विशेषतोलोकोत्तरविनयफलमाह विनयसमाधिः, द्वितीयोद्देशकः जे आयरिअ त्ति सूत्रम्, य आचार्योपाध्याययोः- प्रतीतयोः शुश्रूषावचनकराः पूजाप्रधानवचनकरणशीलास्तेषां पुण्यभाजां सूत्रम शिक्षा ग्रहणासेवनालक्षणा भावार्थरूपाः प्रवर्द्धन्ते वृद्धिमुपयान्ति, दृष्टान्तमाह- जलसिक्ता इव पादपा वृक्षा इति सूत्रार्थः॥ 12-16 लोकोत्तर१२॥ एतच्च मनस्याधाय विनयः कार्य इत्याह- आत्मार्थं आत्मनिमित्तमनेन मे जीविका भविष्यतीति, एवं परार्थं वा परनिमित्तं विनयफलम्। वा पुत्रमहमेतद्वाहयिष्यामीत्येवं शिल्पानि कुम्भकारक्रियादीनि नैपुण्यानि च आलेख्यादिकलालक्षणानि गृहिणः असंयता उपभोगार्थं अन्नपानादिभोगाय, शिक्षन्त इति वाक्यशेषः इहलोकस्य कारणं इहलोकनिमित्तमिति सूत्रार्थः॥ 13 // येन शिल्पादिना शिक्ष्यमाणेन बन्धं निगडादिभिः वधंकषादिभिः घोरंरौद्रंपरितापंच दारुणं एतज्जनितमनिष्टं निर्भर्त्सनादिवचनजनितं च शिक्षमाणा गुरोः सकाशात् नियच्छन्ति प्राप्नुवन्ति युक्ता इति नियुक्ताः शिल्पादिग्रहणे ते ललितेन्द्रिया गर्भेश्वरा राजपुत्रादय इति सूत्रार्थः॥१४॥ तेऽपीत्वरं शिल्पादि शिक्षमाणास्तं गुरुं बन्धादिकारकमपि पूजयन्ति सामान्यतो मधुरवचनाभिनन्दनेन तस्य शिल्पस्येत्वरस्य कारणात्, तन्निमित्तत्वादिति भावः, तथा सत्कारयन्ति वस्त्रादिना नमस्यन्ति अञ्जलिप्रग्रहादिना / तुष्टा इत्यमुत इदमवाप्यत इति हृष्टा निर्देशवर्त्तिन आज्ञाकारिण इति सूत्रार्थः॥१५॥ यदि तावदेतेऽपितं गुरुं पूजयन्ति अत:- किं सूत्रम्, किं पुनर्यः साधुः श्रुतग्राही परमपुरुषप्रणीतागमग्रहणाभिलाषी अनन्तहितकामुकः मोक्षं यः कामयत इत्यभिप्रायः, तेन तु सुतरां गुरवः पूजनीया इति, यतश्चैवमाचार्या यद्वदन्ति किमपि तथा तथाऽनेकप्रकारं भिक्षुः साधुस्तस्मात्तदाचार्यवचनं नातिवर्तेत, युक्तत्वात्सर्वमेव संपादयेदिति सूत्रार्थः // 16 //