SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 384 // नवममध्ययनं विनयसमाधिः, द्वितीयोद्देशकः सूत्रम् अविनयिनो दोषाः। अतो विनयः कर्तव्यः, किंविशिष्ट इत्याह- येन विनयेन कीर्तिं सर्वत्र शुभप्रवादरूपां तथा श्रुतं अङ्गप्रविष्टादि श्लाघ्यं प्रशंसास्पदभूतं निःशेषं संपूर्ण अधिगच्छति प्राप्नोतीति // 2 // जे अचंडे मिए थद्धे, दुव्वाई नियडी सढे / वुज्झइसे अविणीअप्पा, कटुं सोअगयं जहा // सूत्रम् 3 // विणयंपि जो उवाएणं, चोइओ कुप्पई नरो। दिव्वं सो सिरिमिजंति, दंडेण पडिसेहए॥सूत्रम् 4 // अविनयवतो दोषमाह-'जे अत्ति सूत्रम्, यः चण्डो रोषणो मृगः अज्ञः हितमप्युक्तोरुष्यति तथा स्तब्धो जात्यादिमदोन्मत्तः दुर्वाग् अप्रियवक्ता निकृतिमान् मायोपेतः शठः संयमयोगेष्वनादृतः, एभ्यो दोषेभ्यो विनयं न करोति यः उह्यतेऽसौ पापः संसारस्रोतसा अविनीतात्मा' सकलकल्याणैकनिबन्धनविनयविरहितः। किमिवेत्याह-काष्ठं स्रोतोगतं' नद्यादिवहनीपतितं यथा तद्वदिति सूत्रार्थः॥३॥ किंच-'विणयंपी'ति सूत्रम्, विनयं उक्तलक्षणं यः उपायेनापि एकान्तमृदुभणनादिलक्षणेनापि अपिशब्दस्य व्यवहितः संबन्धः चोदित उक्तः कुप्यति रुष्यति नरः। अत्र निदर्शनमाह- दिव्यां अमानुषीं असौ नरः श्रियं लक्ष्मी आगच्छन्ती आत्मनो भवन्तीं दण्डेन काष्ठमयेन प्रतिषेधयति निवारयति / एतदुक्तं भवति- विनयः संपदो निमित्तम्, तत्र स्खलितं यदि कश्चिच्चोदयति स गुणस्तत्रापिरोषकरणेन वस्तुतःसंपदो निषेधः, उदाहरणंचात्र दशारादयः कुरूपागतश्रीप्रार्थनाप्रणयभङ्गकारिणस्तद्रहितास्तदभङ्गकारी च तद्युक्तः कृष्ण इति सूत्रार्थः॥४॥ तहेव अविणीअप्पा, उववज्झा हया गया।दीसंति दुहमेहता, आभिओगमुवट्ठिआ॥सूत्रम्५॥ तहेव सुविणीअप्पा, उववज्झा हया गया।दीसंति सुहमेहता, इट्टि पत्ता महायसा॥सूत्रम्६॥ अविनयदोषोपदर्शनार्थमेवाह-तहेव'त्ति सूत्रम्, तथैवे ति तथैवैते अविनीतात्मानो विनयरहिता अनात्मज्ञाः, उपवाह्यानां
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy