SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् संप्राप्तुकामोऽनुत्तराणि ज्ञानादीनि आराधयेद्विनयकरणेन, न सकृदेव, अपि तु तोषयेद् असकृत्करणेन तोषं ग्राहयेत् धर्मकामोनिर्जरार्थम्, न तु ज्ञानादिफलापेक्षयाऽपीति सूत्रार्थः॥१६॥सोचाण त्ति सूत्रम्, श्रुत्वा मेधावी सुभाषितानि गुराधनफलाभिधायीनि, किमित्याह- शुश्रूषयेदाचार्यान् अप्रमत्तो निद्रादिरहितस्तदाज्ञां कुर्वीतेत्यर्थः, य एवं गुरुशुश्रूषापरः स आराध्य गुणान् अनेकान् ज्ञानादीन् प्राप्नोति सिद्धिमनुत्तराम्, मुक्तिमित्यर्थः, अनन्तरं सुकुलादिपरम्परया वा / ब्रवीमीति पूर्ववदयं सूत्रार्थः॥ 17 // ॥प्रथमोद्देशकः समाप्तः॥ ॥नवमाध्ययने द्वितीयोद्देशकः॥ मूलाउ खंधप्पभवो दुमस्स, खंधाउ पच्छा समुविंति साहा ।साहप्पसाहा विरुहंति पत्ता, तओ सि पुष्पं च फलं रसो अ॥सूत्रम् नवममध्ययन विनयसमाधिः द्वितीयोद्देशकः सूत्रम् 1-2 वृक्षोपमया // 383 // विनय माहात्म्यम्। एवं धम्मस्स विणओ, मूलं परमो से मुक्खो। जेण कित्तिं सुअंसिग्धं, नीसेसं चाभिगच्छइ // सूत्रम् // विनयाधिकारवानेव द्वितीय उच्यते, तत्रेदमादिमंसूत्रं- 'मूलाउ' इत्यादि, अस्य व्याख्या-मूलाद् आदिप्रबन्धात् स्कन्धप्रभवः स्थुडोत्पादः, कस्येत्याह- द्रुमस्य वृक्षस्य / 'ततः' स्कन्धात् सकाशात् पश्चात् तदनु समुपयान्ति आत्मानं प्राप्नुवन्त्युत्पद्यन्त इत्यर्थः, कास्ता इत्याह- शाखाः तद्भुजाकल्पाः। तथा शाखाभ्य उक्तलक्षणाभ्यः प्रशाखास्तदंशभूता विरोहन्ति जायन्ते, तथा तेभ्योऽपि पत्राणि पर्णानि विरोहन्ति / ततः तदनन्तरं से तस्य द्रुमस्य पुष्पं च फलं च रसश्च फलगत एवैते क्रमेण भवन्तीति सूत्रार्थः॥१॥एवं दृष्टान्तमभिधाय दार्टान्तिकयोजनामाह-‘एवं ति सूत्रम्, एवं द्रुममूलवत् धर्मस्य परमकल्पवृक्षस्य विनयो / मूलं आदिप्रबन्धरूपं परम इत्यग्रो रसः से तस्य फलरसवन्मोक्षः, स्कन्धादिकल्पानि तु देवलोकगमनसुकुलागमनादीनि, // 383 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy