________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 382 // शिरसा उत्तमाङ्गेन प्राञ्जलिः प्रोद्गताञ्जलिः सन् कायेन देहेन गिरा वाचा मस्तकेन वन्दे इत्यादिरूपया भो इति शिष्यामन्त्रणं नवममध्ययन मनसा च भावप्रतिबन्धरूपेण नित्यं सदैव सत्कारयेत्, न तु सूत्रग्रहणकाल एव, कुशलानुबन्धव्यवच्छेदप्रसङ्गादिति सूत्रार्थः // विनयसमाधिः, १२॥एवं च मनसि कुर्यादित्याह- 'लज्जा दय'ति सूत्रम्, लज्जा अपवादभयरूपा दया अनुकम्पा संयमः पृथिव्यादिजीवविषयः प्रथमोद्देशकः सूत्रम् ब्रह्मचर्यं विशुद्धतपोऽनुष्ठानम्, एतल्लज्जादि विपक्षव्यावृत्त्या कुशलपक्षप्रवर्तकत्वेन कल्याणभागिनो जीवस्य विशोधिस्थानं 11-17 कर्ममलापनयनस्थानं वर्त्तते, अनेन ये मां गुरव आचार्याः सततं अनवरतं अनुशासयन्ति कल्याणयोग्यतां नयन्ति तानहमेवंभूतान् गुरुमहत्त्वं गुर्वाराधनागुरून् सततं पूजयामि, न तेभ्योऽन्यः पूजार्ह इति सूत्रार्थः // 13 // इतश्चैते पूज्या इत्याह-'जह'त्ति सूत्रम्, यथा निशान्ते / फलंच। रात्र्यवसाने दिवस इत्यर्थः, तपन अर्चिाली सूर्यः प्रभासयति उद्योतयति केवलं संपूर्णम् / भारतं भरतक्षेत्रम्, तुशब्दादन्यच्च / क्रमेण एवं-अर्चिालीवाचार्यः श्रुतेन आगमेन शीलेन परद्रोहविरतिरूपेण बुद्ध्या च स्वाभाविक्या युक्तः सन् प्रकाशयति जीवादिभावानिति / एवं च वर्तमानः सुसाधुभिः परिवृतो विराजते सुरमध्य इव सामानिकादिमध्यगत इव इन्द्र इति सूत्रार्थः। 14 // किंच-'जह'त्ति सूत्रम्, यथा शशी चन्द्रः कौमुदीयोगयुक्तः कार्त्तिकपौर्णमास्यामुदित इत्यर्थः, स एव विशेष्यतेनक्षत्रतारागणपरिवृतात्मा नक्षत्रादिभिर्युक्त इति भावः,खे आकाशेशोभते, किंविशिष्टे खे?- विमलेऽभ्रमुक्ते अभ्रमुक्तमेवात्यन्तं विमलं (तत्) भवतीति ख्यापनार्थमेतत्, एवं चन्द्र इव गणी(तत्) आचार्यः शोभते भिक्षुमध्ये साधुमध्ये, अतोऽयं महत्त्वात्पूज्य इति सूत्रार्थः॥ 15 // किंच- महागर त्ति सूत्रम्, महाकरा ज्ञानादिभावरत्नापेक्षया आचार्या महैषिणो मोक्षैषिणः, कथं // 3 // महैषिण इत्याह-समाधियोगश्रुतशीलबुद्धिभिः समाधियोगैः- ध्यानविशेषैः श्रुतेन-द्वादशाङ्गाभ्यासेन शीलेन-परद्रोहविरतिरूपेण बुद्ध्या च औत्पत्तिक्यादिरूपया, अन्ये तु व्याचक्षते-समाधियोगश्रुतशीलबुद्धीनां महाकरा इति / तानेवंभूतानाचार्यान्