________________ नवममध्ययन श्रीदशवैकालिकं श्रीहारिक वृत्तियुतम् // 385 // राजादिवल्लभानामेते कर्मकरा इत्यौपवाह्याः हया अश्वाः गजा हस्तिनः, उपलक्षणमेतन्महिषकादीनामिति। एते किमित्याहदृश्यन्ते उपलभ्यन्त एव मन्दुरादौ अविनयदोषेण उभयलोकवर्त्तिना यवसादिवोढारः दुःखं संक्लेशलक्षणं एधयन्तः अनेकार्थ- विनयसमाधि द्वितीयोद्देशकः त्वादनुभवन्तः आभियोग्यं कर्मकरभावं उपस्थिताः प्राप्ता इति सूत्रार्थः॥५॥ एतेष्वेव विनयगुणमाह-'तहेव'त्ति सूत्रम्, तथैवे सूत्रम् ति तथैवैते सुविनीतात्मानो विनयवन्त आत्मज्ञा औपवाह्या राजादीनां हया गजा इति पूर्ववत् / एते किमित्याह- दृश्यन्ते / 7-9 नरनार्युदाहरउपलभ्यन्त एव सुखं-आह्वादलक्षणं एधमाना अनुभवन्तः शुद्धिं प्राप्ता इति विशिष्टभूषणालयभोजनादिभावतः प्राप्तर्द्धयो णेन फलम्। महायशसो विख्यातसद्गुणा इति सूत्रार्थः॥६॥ तहेव अविणीअप्पा, लोगंमि नरनारिओ।दीसंति दुहमेहंता, छाया विगलितेंदिआ॥सूत्रम् 7 // दंडसत्थपरिज्जुन्ना, असब्भवयणेहि अ। कलुणाविवन्नच्छंदा, खुप्पिवासाइ परिगया।सूत्रम् 8 // तहेव सुविणीअप्पा, लोगंसि नरनारिओ। दीसंति सुहमेहंता, इष्टुिं पत्ता महायसा॥ सूत्रम् // एतदेव विनयाविनयफलं मनुष्यानधिकृत्याह-'तहेव'त्ति सूत्रम्, तथैव तिर्यञ्च इव अविनीतात्मान इति पूर्ववत् / लोके अस्मिन्मनुष्यलोके, नरनार्य इति प्रकटार्थं दृश्यन्ते दुःखमेधमाना इति पूर्ववत् छारा(ताः) कस घातव्रणाङ्कितशरीराः विगलितेन्द्रिया अपनीतनासिकादीन्द्रियाः पारदारिकादय इति सूत्रार्थः॥ 7 // तथा 'दंड'त्ति सूत्रम्, दण्डा- वेत्रदण्डादयः शस्त्राणि-खड्गादीनि ताभ्यां परिजीर्णाः- समन्ततो दुर्बलभावमापादितास्तथा असभ्यवचनैश्च खरकर्कशादिभिः परिजीर्णाः, त एवंभूताः सतां करुणाहेतुत्वात्करुणादीना व्यापन्नच्छन्दसः- परायत्ततया अपेतस्वाभिप्रायाः, क्षुधा- बुभुक्षया पिपासयातृषा परिगता- व्याप्ता अन्नादिनिरोधस्तोकदानाभ्यामिति / एवमिह लोके प्रागविनयोपात्तकर्मानुभावत एवंभूताः परलोके तु