SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 376 // प्रतिरूपः उचितः खलु विनयः परानुवृत्त्यात्मकः तत्तद्वस्त्वपेक्षया प्राय आत्मव्यतिरिक्तप्रधानानुवृत्त्यात्मको मन्तव्यः / अयंच नवममध्ययनं बाहुल्येन छद्मस्थानाम् / तथा अप्रतिरूपो विनयः अपरानुवृत्त्यात्मकः, स च ज्ञातव्यः केवलिनामेव, तेषां तेनैव प्रकारेण | विनयसमाधिः, प्रथमोद्देशकः कर्मविनयनात्, तेषामपीत्वरः प्रतिरूपोऽज्ञातकेवलभावानांभवत्येवेति गाथार्थः // 323 // उपसंहरन्नाह- एषः अनन्तरोदितो नियुक्तिः 327 भे भवतां परिकथितो विनयः प्रतिरूपलक्षणः त्रिविधः कायिकादिः द्विपञ्चाशद्विधिविधानं एतावत्प्रभेदमित्यर्थः ब्रुवते अभिदधति समाधि निक्षेपाश्च। तीर्थकरा अनाशातनाविनयं वक्ष्यमाणमिति गाथार्थः॥ 324 // एतदेवाह-तीर्थकरसिद्धकुलगणसङ्घक्रियाधर्मज्ञानज्ञानिनां तथा आचार्यस्थविरोपाध्यायगणिनां संबन्धीनि त्रयोदश पदानि, अत्र तीर्थकरसिद्धौ प्रसिद्धौ, कुलं नागेन्द्रकुलादि, गणः कोटिकादिः, सङ्घः प्रतीतः, क्रियाऽस्तिवादरूपा, धर्मः श्रुतधर्मादिः, ज्ञानंमत्यादि, ज्ञानिनस्तद्वन्तः, आचार्यः प्रतीतः, स्थविरः सीदतां स्थिरीकरणहेतुः, उपाध्यायः प्रतीतः, गणाधिपतिर्गणिरिति गाथार्थः / / 325 // एतानि त्रयोदश पदानि अनाशातनादिभिश्चतुर्भिर्गुणितानि द्विपञ्चाशद्भवन्तीत्याह- अनाशातना च तीर्थकरादीनां सर्वथा अहीलनेत्यर्थः, तथा भक्तिस्तेष्वेवोचितोपचाररूपा, तथा बहुमानस्तेष्वेवान्तरभावप्रतिबन्धरूपः, तथा च वर्णसंज्वलनातीर्थकरादीनामेव सद्भूतगुणोत्कीर्तना / एवमनेन प्रकारेण तीर्थकरादयस्त्रयोदश चतुर्गुणा अनाशातनाद्युपाधिभेदेन भवन्ति द्विपञ्चाशद्भेदा इति गाथार्थः॥३२६॥उक्तो विनयः, साम्प्रतं समाधिरुच्यते, तत्रापि नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यादिसमाधिमाहनि०-दव्वं जेण व दव्वेण समाही आहिअंचजंदव्वं / भावसमाहि चउव्विह दसणनाणे तवचरित्ते // 327 // // 376 // द्रव्य मिति द्रव्यमेव समाधिः द्रव्यसमाधिः यथा मात्रकं अविरोधि वा क्षीरगुडादि तथा येन वा द्रव्येणोपयुक्तेन समाधिस्त्रिफलादिना तद् द्रव्यसमाधिरिति / तथा आहितं वा यद्रव्यं समतां करोति तुलारोपितपलशतादिवत्स्वस्थाने तद् द्रव्यं
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy