________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 377 // समाधिरिति / उक्तो द्रव्यसमाधिः, भावसमाधिमाह- भावसमाधिः प्रशस्तभावाविरोधलक्षणश्चतुर्विधः, चातुर्विध्यमेवाह नवममध्ययनं दर्शनज्ञानतपश्चारित्रेषु / एतद्विषयो दर्शनादीनां व्यस्तानां समस्तानांवा सर्वथाऽविरोध इतिगाथार्थः // 327 // उक्तः समाधिः, विनयसमाधिः, तदभिधानानामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्यावसर इत्यादिचर्चः पूर्ववत् तावद्यावत्सूत्रानुगमेऽस्खलितादि प्रथमोद्देशकः सूत्रम् गुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदं विनयाथंभावकोहा व मयप्पमाया, गुरुस्सगासे विणयं न सिक्खे।सोचेव उ तस्स अभूइभावो, फलं व कीअस्स वहाय होइ॥सूत्रम् ग्राहिणो हानिः। 1 // सूत्रम् 2 'थंभाव'त्ति, अस्य व्याख्या-स्तम्भावामानाद्वा जात्यादिनिमित्तात् क्रोधाद्वा अक्षान्तिलक्षणात् मायाप्रमादा दिति मायातो- उदाहरणनिकृतिरूपायाः प्रमादाद्- निद्रादेः सकाशात्, किमित्याह- गुरोः सकाशे आचार्यादेः समीपे विनयं आसेवनाशिक्षाभेदभिन्नं पूर्वकं दोषन शिक्षते नोपादत्ते, तत्र स्तम्भात्कथमहं जात्यादिमान् जात्यादिहीनसकाशे शिक्षामीति, एवं क्रोधात्क्वचिद्वितथकरणचोदितो प्ररूपणम्। रोषाद्वा, मायातःशूलं मे क्रियत इत्यादिव्याजेन, प्रमादात्प्रक्रान्तोचितमनवबुद्ध्यमानो निद्रादिव्यासङ्गेन, स्तम्भादिक्रमोपन्यासश्चेत्थमेवामीषां विनयविघ्नहेतुतामाश्रित्य प्राधान्यख्यापनार्थः। तदेवं स्तम्भादिभ्यो गुरोः सकाशे विनयं न शिक्षते, अन्ये तु पठन्ति-गुरोः सकाशे 'विनये न तिष्ठति' विनये न वर्त्तते, विनयं नासेवत इत्यर्थः / इह च स एव तु स्तम्भादिर्विनयशिक्षाविघ्नहेतुः तस्य जडमते: अभूतिभाव' इति अभूतेर्भावोऽभूतिभावः, असंपद्भाव इत्यर्थः, किमित्याह-वधाय भवति' गुणलक्षणभावप्राणविनाशाय भवति, दृष्टान्तमाह- फलमिव कीचकस्य कीचको- वंशस्तस्य यथा फलं वधाय भवति,8 सति तस्मिंस्तस्य विनाशात्, तद्वदिति सूत्रार्थः॥१॥ जे आवि मंदित्ति गुरुं विइत्ता, डहरे इमे अप्पसुअत्ति नच्चा। हीलंति मिच्छं पडिवज्जमाणा, करंति आसायण ते गुरूणं ॥सूत्रम् // // 377 //