________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् / / 375 // नवममध्ययन विनयसमाधिः, प्रथमोद्देशकः नियुक्तिः प्रतिरूपाप्रतिरूपोविनयः। उपनयति च स्वर्ग मोक्षं आत्मानं जीवंतपोविनयनिश्चयमतिः, यस्मादेवंविधस्तपोविनीतो भवति तस्मादिति गाथार्थः // 318 // उपचारविनयमाह- अथौपचारिकः पुनर्द्विविधो विनयः समासतो भवति, द्वैविध्यमेवाह- प्रतिरूपयोगयोजनं तथाऽनाशातनाविनय इति गाथासमासार्थः // 319 // व्यासार्थमाह- प्रतिरूपः उचितः खलु विनयस्त्रिविधः, काययोगे च वाचि मानसः कायिको वाचिको मानसश्च, अष्टचतुर्विधद्विविधः, कायिकोऽष्टविधः वाचिकश्चतुर्विधः मानसो द्विविधः / प्ररूपणा तस्य कायिकाष्टविधादेरियं भवति वक्ष्यमाणलक्षणेति गाथार्थः // 320 // कायिकमाह- अभ्युत्थानमर्हस्य, अञ्जलिः प्रश्नादौ, आसनदान पीठकाद्युपनयनम्, अभिग्रहो गुरुनियोगकरणाभिसन्धिः, कृतिश्चेति कृतिकर्म वन्दनमित्यर्थः, शुश्रूषणं विधिवददूरासन्नतया सेवनम्, अनुगमनं आगच्छतः प्रत्युद्गमनम्, संसाधनं च गच्छतोऽनुव्रजनं चाष्टविधः कायविनय इति गाथार्थः॥ 321 // वागादिविनयमाह- हितमितापरुषवागिति हितवाक्-हितं वक्ति परिणामसुन्दरम्, मितवाग्-मितं स्तोकैरक्षरैः, अपरुषवागपरुषंअनिष्ठुरम्, तथा अनुविचिन्त्यभाषी स्वालोचितवक्तेति वाचिको विनयः। तथा अकुशलमनोनिरोधः आर्तध्यानादिप्रतिषेधेन, कुशलमनउदीरणं चैव धर्मध्यानादिप्रवृत्त्येति मानस इति गाथार्थः / / 322 // आह-किमर्थमयं प्रतिरूपविनयः?, कस्य चैष इति?, उच्यते नि०- पडिरूवोखलु विणओ पराणुअत्तिमइओ मुणेअव्वो। अप्पडिरूवो विणओ नायव्वो केवलीणं तु॥३२३॥ नि०- एसो भे परिकहिओ विणओपडिरूवलक्खणो तिविहो। बावन्नविहिविहाणं बेंति अणासायणाविणयं // 324 / / नि०-तित्थगरसिद्धकुलगणसंघकियाधम्मनाणनाणीणं। आयरिअथेरओज्झागणीणं तेरस पयाणि // 325 // नि०- अणसायणा य भत्ती बहुमाणो तहय वन्नसंजलणा। तित्थगराई तेरस चउग्गुणा होंति बावन्ना // 326 // // 375 //