________________ श्रीदशवैकालिकं श्रीहारिक वृत्तियुतम् // 373 // नवममध्ययनं विनयसमाधिः, प्रथमोद्देशक: नियुक्ति: 313 भावविनयः। नियुक्तिः |314-316 पञ्चविधमोक्षविनयः। नि०- एमेव कामविणओ भए अनेअव्वमाणुपुव्वीए। मोक्खंमिऽवि पंचविहो परूवणा तस्सिमा होइ // 313 // लोकोपचारविनयो लोकप्रतिपत्तिफल:अर्थनिमित्तं च अर्थप्राप्त्यर्थं च कामहेतुश्च कामनिमित्तश्च तथा भयविनयो भयनिमित्तो मोक्षविनयो मोक्षनिमित्तः, एवमुपाधिभेदाद्विनयः खलु पञ्चधा पञ्चप्रकारोभवतीतिगाथासमासार्थः॥३१०॥व्यासार्थाभिधित्सया तुलोकोपचारविनयमाह- अभ्युत्थानं तदुचितस्यागतस्याभिमुखमुत्थानं अञ्जलिः विज्ञापनादौ, आसनदानंचगृहागतस्य प्रायेण, अतिथिपूजा चाहारादिदानेन 'एष' इत्थंभूतो लोकोपचारविनयः, देवतापूजा च यथाभक्ति बल्याधुपचाररूपा विभवेने ति यथाविभवं विभवोचितेति गाथार्थः॥ 311 / उक्तो लोकोपचारविनयः, अर्थविनयमाह- अभ्यासवृत्तिः नरेन्द्रादीनां समीपावस्थानं छन्दोऽनुवर्तनं अभिप्रायाराधनं देशकालदानं च कटकादौ विशिष्टनृपतेः प्रस्तावदानम्, तथाऽभ्युत्थानमञ्जलिरासनदानं च नरेन्द्रादीनामेव कुर्वन्ति अर्थकृते अर्थार्थमिति गाथार्थः॥ 312 // उक्तोऽर्थविनयः, कामादिविनयमाह- एवमेव यथाऽर्थविनय उक्तोऽभ्यासवृत्त्यादिस्तथा कामविनयः भये चेति भयविनयश्च ज्ञातव्यो विज्ञेयः आनुपूर्व्या परिपाट्या , तथाहिकामिनो वेश्यादीनां कामार्थमेवाभ्यासवृत्त्यादि यथाक्रमं सर्वं कुर्वन्ति प्रेष्याश्च भयेन स्वामिनामिति, उक्तौ कामभयविनयौ, मोक्षविनयमाह- मोक्षेऽपि मोक्षविषयो विनयः पञ्चविधः पञ्चप्रकारः प्ररूपणा निरूपणा तस्यैषा भवति वक्ष्यमाणेति गाथार्थः॥ 313 // नि०-दसणनाणचरित्ते तवे अतह ओवयारिए चेव / एसोअमोक्खविणओ पंचविहो होइ नायव्यो॥३१४॥ नि०-दव्वाण सव्वभावा उवइट्ठाजे जहा जिणवरेहिं / ते तह सद्दहइ नरोदसणविणओ हवइ तम्हा॥३१५॥ नि०- नाणं सिक्खइ नाणं गुणेइ नाणेण कुणइ किच्चाई। नाणी नवं न बंधइ नाणविणीओ हवइ तम्हा / / 316 // // 373 //