________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् / / / 372 // नवममध्ययनं विनयसमाधिः, प्रथमोद्देशकः नियुक्तिः 309 अभिसम्बन्धोविनयनिक्षेपाश्च। नियुक्तिः 310-312 भावविनयः। // अथ नवममध्ययनं विनयसमाध्याख्यम्॥ ॥नवमाध्यने प्रथमोद्देशकः॥ अधुना विनयसमाध्याख्यमारभ्यते, अस्य चायमभिसंबन्धः- इहानन्तराध्ययने निरवद्यं वच आचारे प्रणिहितस्य भवतीति तत्र यत्नवता भवितव्यमित्येतदुक्तम्, इह त्वाचारप्रणिहितोयथोचितविनयसंपन्न एव भवतीत्येतदुच्यते, उक्तंच-आयारपणिहाणंमि, से सम्मं वट्टई बुहे / णाणादीण विणीए जे, मोक्खट्ठा निम्विगिच्छए॥१॥ इत्यनेनाभिसंबन्धेनायातमिदमध्ययनम्, अस्य चानुयोगद्वारोपन्यासः पूर्ववत्तावद्यावन्नामनिष्पन्नो निक्षेपः, तत्र च विनयसमाधिरिति द्विपदं नाम, तन्निक्षेपायाह नि०-विणयस्स समाहीए निक्खेवो होइ दोण्हवि चउक्को। दव्वविणयंमि तिणिसो सुवण्णमिच्चेवमाईणि॥३०९॥ विनयस्य प्रसिद्धतत्त्वस्य समाधेश्च प्रसिद्धतत्त्वस्यैव निक्षेपो- न्यासो भवति द्वयोरपि चतुष्को नामादिभेदात्, तत्र नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यविनयमाह- द्रव्यविनये ज्ञशरीरभव्यशरीरव्यतिरिक्ते तिनिशो वृक्षविशेष उदाहरणम्, स रथाङ्गादिषु यत्र यत्र यथा यथा विनीयते तत्र तत्र तथा तथा परिणमति, योग्यत्वादिति / तथा सुवर्णमित्यादीनि कटककुण्डलादिप्रकारेण विनयनाद् द्रव्याणि द्रव्यविनयः, आदिशब्दात्तत्तद्योग्यरूप्यादिपरिग्रह इति गाथार्थः॥३०९॥साम्प्रतं भावविनयमाह नि०- लोगोवयारविणओ अत्थनिमित्तं च कामहेउं च। भयविणय मुक्खविणओ विणओखलु पंचहा होइ // 310 // नि०- अन्भुट्ठाणं अंजलि आसणदाणं अतिहिपूआय। लोगोवयारविणओ देवयपूआय विहवेणं // 311 // नि०- अब्भासवित्तिछंदाणुवत्तणं देसकालदाणं च / अब्भुट्ठाणं अंजलिआसणदाणं च अत्थकए // 312 // (r) आचारप्रणिधाने स सम्यग्वर्तते बुधः / ज्ञानादिषु विनीतो यो मोक्षार्थं निर्विचिकित्सकः // 1 // // 372 //