SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ श्रीदश- वैकालिक श्रीहारिक वृत्तियुतम् // 371 // अष्टममध्ययन आचारप्रणिधिः, सूत्रम् 61-64 उपदेशोऽऽचारप्रणिधिफलंच। अनशनादिरूपंसाधुलोकप्रतीतं संयमयोगंच पृथिव्यादिविषयं संयमव्यापारंचस्वाध्याययोगं च वाचनादिव्यापारंसदा सर्वकालं अधिष्ठाता तपःप्रभृतीनां कर्तेत्यर्थः, इह च तपोऽभिधानात्तद्हणेऽपिस्वाध्याययोगस्य प्राधान्यख्यापनार्थं भेदेनाभिधानमिति। स एवंभूतः शूर इव विक्रान्तभट इव सेनया चतुरङ्गरूपया इन्द्रियकषायादिरूपया निरुद्धः सन् समाप्तायुधः संपूर्णतपःप्रभृतिखड्गाद्यायुधः अलं अत्यर्थमात्मनो भवति संरक्षणाय अलं च परेषां निराकरणायेति सूत्रार्थः॥ 2 // एतदेव स्पष्टयन्नाह'सज्झाय'त्ति सूत्रम्, स्वाध्याय एव सद्ध्यानं स्वाध्यायसद्ध्यानंतत्र रतस्य सक्तस्य त्रातुः स्वपरोभयत्राणशीलस्य अपापभावस्य / लब्ध्याद्यपेक्षारहिततया शुद्धचित्तस्य तपसि अनशनादौ यथाशक्ति रतस्य विशुद्ध्यते अपैति यद् अस्य साधोः मलं कर्ममलं. पुराकृतं जन्मान्तरोपात्तम्, दृष्टान्तमाह- समीरितं प्रेरितं रूप्यमलमिव ज्योतिषा अग्निनेति सूत्रार्थः // 63 // ततः- ‘से तारिसे'त्ति, सूत्रम्, स तादृशः अनन्तरोदितगुणयुक्तः साधुः 'दुःखसहः' परीषहजेता जितेन्द्रियः पराजितश्रोत्रेन्द्रियादिः श्रुतेन युक्तो विद्यावानित्यर्थः अममः सर्वत्र ममत्वरहितः अकिञ्चनो द्रव्यभावकिञ्चनरहितः विराजते शोभते, कर्मघने ज्ञानावरणीयादिकर्ममेघे अपगते सति, निदर्शनमाह- कृत्स्नाभ्रपुटापगम इव चन्द्रमा इति यथा कृत्स्ने कृष्णे वा अभ्रपुटे अपगते सति चन्द्रो विराजते शरदि तद्वदसावपेतकर्मघनः समासादितकेवलालोको विराजत इति सूत्रार्थः॥ 64 // ब्रवीमीति पूर्ववत्, उक्तोऽनुगमः, साम्प्रतं नयाः, ते च पूर्ववदेव / व्याख्यातमाचारप्रणिध्यध्ययनम् // 8 // // सूरिपुरन्दरश्रीमद्धरिभद्रसूरिविरचितायां दशवैकालिकबृहद्वृत्ती अष्टममध्ययनं आचारप्रणिध्याख्यं समाप्तमिति // // 371 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy