________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 367 // अष्टममध्ययन आचारप्रणिधिः, सूत्रम् 51-60 निमित्तादिप्रतिषेधः। सूत्रार्थः॥ 48 // भाषणोपायमाह-'दिटुंति सूत्रम्, दृष्टां दृष्टार्थविषयां मितां स्वरूपप्रयोजनाभ्यां असंदिग्धां निःशङ्किता प्रतिपूर्णां स्वरादिभिः व्यक्तां अलल्लां जितां परिचितां अजल्पनशीला नोच्चैर्लग्नविलग्नां अनुद्विग्नां नोद्वेगकारिणीमेवंभूतां भाषां निसृजेद् ब्रूयाद् आत्मवान् सचेतन इति सूत्रार्थः / / 49 // प्रस्तुतोपदेशाधिकार एवेदमाह- आयार त्ति सूत्रम्, आचारप्रज्ञप्तिधर मित्याचारधरः स्त्रीलिङ्गादीनि जानाति प्रज्ञप्तिधरस्तान्येव सविशेषाणीत्येवंभूतम् / तथा दृष्टिवादमधीयानं प्रकृतिप्रत्ययलोपागमवर्णविकारकालकारकादिवेदिनं वाग्विस्खलितं ज्ञात्वा विविधं- अनेकैः प्रकारैर्लिङ्गभेदादिभिः स्खलितं विज्ञाय न तं आचारादिधरमुपहसेन्मुनिः, अहो नु खल्वाचारादिधरस्य वाचि कौशलमित्येवम्, इह च दृष्टिवादमधीयानमित्युक्तमत इदं गम्यते-नाधीतदृष्टिवादम्, तस्य ज्ञानाप्रमादातिशयतः स्खलनाऽसंभवाद्, यद्येवंभूतस्यापि स्खलितं संभवति न चैनमुपहसेदित्युपदेशः, ततोऽन्यस्य सुतरां संभवति, नासौ हसितव्य इति सूत्रार्थः॥५०॥ नक्खत्तं सुमिणं जोग, निमित्तं मंतभेसजं / गिहिणोतं न आइक्खे, भूआहिगरणं पयं ॥सूत्रम् 51 // अन्नट्ठ पगडं लयणं, भइन्ज सयणासणं / उच्चारभूमिसंपन्नं, इत्थीपसुविवजिसूत्रम् 52 // विवित्ता अभवे सिज्जा, नारीणं न लवे कहं / गिहिसंथवं न कुज्जा, कुज्जा साहूहिं संथवं॥ सूत्रम् 53 / / जहा कुक्कुडपोअस्स, निच्चं कुललओ भयं / एवं खुबंभयारिस्स, इत्थीविग्गहओभयं ।।सूत्रम् 54 // चित्तभित्तिं न निज्झाए, नारिं वा सुअलंकिअं / भक्खरंपिव दट्ठणं, दिढि पडिसमाहरे।सूत्रम् 55 // हत्थपायपलिच्छिन्नं, कण्णनासविगप्पि। अवि वाससयं नारिं, बंभयारी विवज्जए।सूत्रम् 56 // विभूसा इत्थिसंसग्गो, पणीरसभोअणं / नरस्सऽत्तगवेसिस्स, विसंतालउडं जहा // सूत्रम् 57 // // 367 //