________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 366 // सूत्रम् राहस्यिकीषु न रमेत, स्वाध्याये वाचनादौ रतः सदा, एवंभूतो भवेदिति सूत्रार्थः॥ 42 // तथा-'जोगंच'त्ति सूत्रम्, योगं च अष्टममध्ययनं त्रिविधं मनोवाक्कायव्यापारं श्रमणधर्मे क्षान्त्यादिलक्षणे युञ्जीत अनलसः उत्साहवान्, ध्रुवं कालाद्यौचित्येन नित्यं संपूर्ण आचार प्रणिधिः, सर्वत्र प्रधानोपसर्जनभावेन वा, अनुप्रेक्षाकाले मनोयोगमध्ययनकाले वाग्योगं प्रत्युपेक्षणाकाले काययोगमिति।फलमाहयुक्त एवं व्यापृतः श्रमणधर्मे दशविधेऽर्थं लभते प्राप्नोत्यनुत्तरं भावार्थ ज्ञानादिरूपमिति सूत्रार्थः॥४३॥ एतदेवाह-'इहलोग'त्ति 41-50 कषायसूत्रम्, इहलोकपरत्रहितं इहाकुशलप्रवृत्तिदुःखनिरोधेन परत्र कुशलानुबन्धत उभयलोकहितमित्यर्थः, येन अर्थेन ज्ञानादिना निग्रहार्थ करणभूतेन गच्छति सुगतिम्, पारम्पर्येण सिद्धिमित्यर्थः, उपदेशाधिकार उक्तव्यतिकरसाधनोपायमाह- बहुश्रुतं आगमवृद्धं कायपर्युपासीत सेवेत, सेवमानश्च पृच्छेद् अर्थविनिश्चयं अपायरक्षकं कल्याणावहं वाऽर्थावितथभावमिति सूत्रार्थः ॥४४॥पर्युपासीनश्च / / वाक्प्रणिधिः। 'हत्थं ति सूत्रम्, हस्तं पादं च कायं च प्रणिधाये ति संयम्य जितेन्द्रियो निभृतो भूत्वा आलीनगुप्तो निषीदेत, ईषल्लीन उपयुक्त इत्यर्थः, सकाशे गुरोर्मुनिरिति सूत्रार्थः॥ 45 // किं च-न पक्खओ'त्ति सूत्रम्, न पक्षतः- पार्श्वतः न पुरतः- अग्रतः नैव कृत्यानां आचार्याणां पृष्ठतो मार्गतो निषीदेदिति वर्त्तते, यथासंख्यमविनयवन्दमानान्तरायादर्शनादिदोषप्रसङ्गात् / न च ऊ58 समाश्रित्य ऊरोरुपऍलंकृत्वा तिष्ठेद्गुर्वन्तिके, अविनयादिदोषप्रसङ्गादिति सूत्रार्थः॥४६॥उक्तः कायप्रणिधिः, वाक्प्रणिधिमाह- अपुच्छिओ त्ति सूत्रम्, अपृष्टो निष्कारणं न भाषेत, भाषमाणस्य चान्तरेण न भाषेत, नेदमित्थं किं तद्देवमिति, तथा पृष्ठिमांस परोक्षदोषकीर्तनरूपं न खादेत् न भाषेत, मायामृषां मायाप्रधानां मृषावाचं विवर्जयेदिति सूत्रार्थः॥४७॥ किंच'अप्पत्तिअं'ति सूत्रम्, अप्रीतिर्येन स्या दिति प्राकृतशैल्या येनेति- यया भाषया भाषितया अप्रीतिरित्यप्रीतिमात्रं भवेत् तथा / आशुशीघ्रं कुप्येद्वा परो रोषकार्यं दर्शयेत् सर्वशः सर्वावस्थासुता इत्थंभूतांन भाषेत भाषां अहितगामिनी उभयलोकविरुद्धामिति // 366 //