________________ आचार श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 361 // ज्ञाताज्ञातमजल्पन (ग्रन्थाग्रं५५००) शीलोधर्मलाभमात्राभिधायी चरेत्, तत्रापि अप्रासुकं सचित्तंसन्मिश्रादिकथञ्चिद्गृहीतमपि | अष्टममध्ययनं न भुञ्जीत, तथा क्रीतमौद्देशिकाहृतं प्रासुकमपिन भुञ्जीत, एतद्विशोध्यविशोधिकोट्युपलक्षणमिति सूत्रार्थः॥२३॥'संनिहिति प्रणिधिः, सूत्रम्, संनिधिं च प्राग्निरूपितस्वरूपां न कुर्यात् अणुमात्रमपि स्तोकमपि संयतः साधुः, तथा मुधाजीवीति पूर्ववत्, असंबद्धः सूत्रम् पद्मिनीपत्रोदकवद्गृहस्थैः, एवंभूतः सन् भवेत् जगन्निश्रितः चराचरसंरक्षणप्रतिबद्ध इति सूत्रार्थः // 24 // किंच-'लूह'त्ति 17-28 उपाश्रयसूत्रम्, रूक्षैः- वल्लचणकादिभिर्वृत्तिरस्येति रूक्षवृत्तिः, सुसंतुष्टो येन वा तेन वा संतोषगामी, अल्पेच्छो न्यूनोदरतयाऽऽहार गोचरपरित्यागी, सुभरः स्यात् अल्पेच्छत्वादेव दुर्भिक्षादाविति फलं प्रत्येकं वा स्यादिति क्रियायोगः, रूक्षवृत्तिः स्यादित्यादि। प्रवेशादि माश्रित्यतथा आसुरत्वं क्रोधभावं न गच्छेत् क्वचित् स्वपक्षादौ श्रुत्वा जिनशासनं क्रोधविपाकप्रतिपादकं वीतरागवचनम् / जहा चउहि विधिः। ठाणेहिं जीवा आसुरत्ताए कम्मं पकरेंति, तंजहा- कोहसीलयाए पाहुडसीलयाए जहा ठाणे जाव जंणं मए एस पुरिसे अण्णाणी मिच्छादिट्ठी अक्कोसइ हणइ वा तंण मे एस किंचि अवरज्झइत्ति, किं तु मम एयाणि वेयणिज्जाणि कम्माणि अवरझंतित्ति सम्ममहियासमाणस्स निजरा एव भविस्सइ त्ति सूत्रार्थः // 25 // तथा कण्ण'त्ति सूत्रम्, कर्णसौख्यहेतवः कर्णसौख्याः शब्दा वेणुवीणादिसंबन्धिनस्तेषु प्रेम रागंन अभिनिवेशयेत् न कुर्यादित्यर्थः, दारुणं अनिष्टं कर्कशं कठिनं स्पर्शमुपनतं सन्तं कायेनाधिसहेत् / न तत्र द्वेषं कुर्यादिति, अनेनाद्यन्तयो रागद्वेषनिराकरणेन सर्वेन्द्रियविषयेषु रागद्वेषप्रतिषेधो वेदितव्य इति सूत्रार्थः।। 26 // किं च- 'खुहं पि'त्ति सूत्रम्, क्षुधं बुभुक्षां पिपासां तृषं दुःशय्यां विषमभूम्यादिरूपां शीतोष्णं प्रतीतं अरतिं मोहनीयोद्भवां भयं // 361 // 0 यथा चतुर्भिः स्थानैर्जीवा आसुरत्वाय कर्म प्रकुर्वन्ति, तद्यथा- क्रोधशीलतया प्राभृतशीलतया यथा स्थानाङ्गे यावत् यन्मामेष पुरुषोऽज्ञानी मिथ्यादृष्टिराक्रोशति हन्ति वा तन्न मे एष किञ्चिदपराध्यतीति, किन्तु ममैतानि वेदनीयानि कर्माणि अपराध्यन्तीति सम्यगध्यासीनस्य निर्जरैव भविष्यतीति /