________________ श्रीदश आचार श्रीहारिक वृत्तियुतम् // 360 // सूत्रम् उपाश्रय रूपमथवा आसनं अपवादगृहीतं पीठकादि प्रत्युपेक्षेतेति सूत्रार्थः // 17 // तथा उच्चारं ति सूत्रम्, उच्चारं प्रस्रवणं श्लेष्म सिंघाणं अष्टममध्ययन जल्लमिति प्रतीतानि, एतानि प्रासुकं प्रत्युपेक्ष्य स्थण्डिलमिति वाक्यशेषः, परिस्थापयेद् व्युत्सृजेत् संयत इति सूत्रार्थ H // 18 // प्रणिधिः, उपाश्रयस्थानविधिरुक्तो, गोचरप्रवेशमधिकृत्याह-'पविसित्तु' सूत्रम्, प्रविश्य परागारं परगृहं पानार्थं भोजनस्य ग्लानादेरौषधार्थ वा यतं- गवाक्षकादीन्यनवलोकयन् तिष्ठेदुचितदेशे, मितं यतनया भाषेत आगमनप्रयोजनादीति, न च रूपेषु दातृकान्तादिषु 17-28 मनः कुर्यात्, एवंभूतान्येतानीति न मनो निवेशयेत्, रूपग्रहणं रसाधुपलक्षणमिति सूत्रार्थः ॥१९॥गोचरादिगत एव केनचित्तथा-गार विधं पृष्ट एवं ब्रूयादित्याह-'बहु'न्ति सूत्रम्, अथवा उपदेशाधिकारे सामान्येनाह-'बहु'न्ति सूत्रम्, बहु अनेकप्रकारं प्रवेशादि माश्रित्यशोभनाशोभनं शृणोति कर्णाभ्याम्, शब्दजातमिति गम्यते, तथा बहु अनेकप्रकारमेव शोभनाशोभनभेदेनाक्षिभ्यां पश्यति, विधिः। रूपजातमिति गम्यते, एवं न च दृष्टं श्रुतं सर्वं स्वपरोभयाहितमपि 'श्रुता ते रुदती पत्नी'त्येवमादि भिक्षुराख्यातुमर्हति, चारित्रोपघातात्, अर्हति चस्वपरोभयहितं दृष्टस्ते राजानमुपशामयशिष्य' इति सूत्रार्थः।।२०॥ एतदेवस्पष्टयन्नाह-'सुति सूत्रम्, श्रुतं वा अन्यतः यदिवा दृष्टं स्वयमेव नालपेत् न भाषेत, औपघातिकं उपघातेन निर्वृत्तं तत्फलंवा, यथा-चौरस्त्वमित्यादि, अतोनालपेदपीति गम्यते, तथा न च केनचिदुपायेन सूक्ष्मयाऽपि भङ्गया गृहियोगं गृहिसंबन्धं तद्बालग्रहणादिरूपं गृहिव्यापार वा- प्रारम्भरूपं समाचरेत् कुर्यान्नैवेति सूत्रार्थः॥ 21 // किं च-'णिट्ठाणं'ति सूत्रम्, निष्ठानं सर्वगुणोपेतं संभृतमन्नं रस निएंढमेतद्विपरीतं कदशनम्, एतदाश्रित्याधं भद्रकं द्वितीयं पापकमिति वा, पृष्टो वापि परेण कीदृग् लब्धमिति अपृष्टो वा // 360 / स्वयमेव लाभालाभं निष्ठानादेन निर्दिशेद्, अद्य साधु लब्धमसाधु वा शोभनमिदमपरमशोभनं वेति सूत्रार्थः॥ 22 // किंच'न य'त्ति सूत्रम्, न च भोजने गृद्धः सन् विशिष्टवस्तुलाभायेश्वरादिकुलेषु मुखमङ्गलिकया चरेत्, अपितु उञ्छं भावतो