________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 358 // सूत्रम् उक्तः स्थूलविधिः, अथ सूक्ष्मविधिमाह-'अट्ठ'त्ति सूत्रम्, अष्टौ सूक्ष्माणि वक्ष्यमाणानि प्रेक्ष्योपयोगत आसीत तिष्ठेच्छ- अष्टममध्ययन यीत वेति योगः, किंविशिष्टानीत्याह- यानि ज्ञात्वा संयतो ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च दयाधिकारी भूतेषु भवति, आचार प्रणिधिः, अन्यथा दयाधिकार्येव नेति, तानि प्रेक्ष्य तद्रहित एवासनादीनि कुर्याद्, अन्यथा तेषां सातिचारतेति सूत्रार्थः // 13 // आह'कयराणि' सूत्रम्, कतराण्यष्टौ सूक्ष्माणि यानि दयाधिकारित्वाभावभयात् पृच्छेत्संयतः?, अनेन दयाधिकारिण एव एवंविधेषु 13-16 अष्टौ सूक्ष्माणि यत्नमाह, सह्यवश्यं तदुपकारकाण्यपकारकाणि च पृच्छति, तत्रैव भावप्रतिबन्धादिति ।अमूनि तानि अनन्तरं वक्ष्यमाणानि तेषां विधिश्च। मेधावी आचक्षीत विचक्षण इति, अनेनाप्येतदेवाह-मर्यादावर्तिना तज्ज्ञेन तत्प्ररूपणा कार्या, एवं हि श्रोतुस्तत्रोपादेयबुद्धिर्भवति, अन्यथा विपर्यय इति सूत्रार्थः॥१४॥ 'सिणेहंति सूत्रम्, स्नेह मिति स्नेहसूक्ष्म- अवश्यायहिममहिकाकरकहरतनुरूपम्, पुष्पसूक्ष्मं चेति वटोदुम्बराणां पुष्पाणि, तानि तद्वर्णानि सूक्ष्माणीति न लक्ष्यन्ते, पाणी ति प्राणिसूक्ष्ममनुद्धरिः कुन्थुः, स हि / चलन् विभाव्यते, न स्थितः, सूक्ष्मत्वात् / उत्तिंगं तथैव चे त्युत्तिङ्गसूक्ष्म-कीटिकानगरम्, तत्र कीटिका अन्ये च सूक्ष्मसत्त्वा भवन्ति / तथा पनक मिति पनकसूक्ष्मं प्रायः प्रावृट्काले भूमिकाष्ठादिषु पञ्चवर्णस्तद्रव्यलीनः पनक इति, तथा बीजसूक्ष्म शाल्यादिबीजस्य मुखमूले कणिका, या लोके तुषमुखमित्युच्यते, हरितं चे ति हरितसूक्ष्मम्, तच्चात्यन्ताभिनवोद्भिन्नं पृथिवीसमानवर्णमेवेति, अण्डसूक्ष्मं चाष्टम मिति एतच्च मक्षिकाकीटिकागृहकोलिकाब्राह्मणीकृकलासाधण्डमिति सूत्रार्थः॥१५॥ एवमेआणि'त्ति सूत्रम्, एवं उक्तेन प्रकारेण एतानि सूक्ष्माणि ज्ञात्वा सूत्रादेशेन सर्वभावेन शक्त्यनुरूपेण स्वरूपसंरक्षणादिनाक संयतः साधुः किमित्याह- अप्रमत्तो निद्रादिप्रमादरहितः यतेत मनोवाक्कायैः संरक्षणं प्रति नित्यं सर्वकालं सर्वेन्द्रियसमाहितः शब्दादिषु रागद्वेषावगच्छन्निति सूत्रार्थः॥१६॥ // 358 //