________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 357 // वायुकायविधिमाह-'तालिअंटेण'त्ति सूत्रम्, तालवृन्तेन व्यजनविशेषेण पत्रेण पद्मिनीपत्रादिना शाखया वृक्षडालरूपया अष्टममध्ययनं विधूप(व)नेन वा व्यजनेन वा, किमित्याह-न वीजयेद् आत्मनः कायं स्वशरीरमित्यर्थः बाह्यं वापि पुद्गलं उष्णोदकादीति आचार प्रणिधिः, सूत्रार्थः॥९॥प्रतिपादितो वायुकायविधिः, वनस्पतिविधिमाह-'तण'त्ति सूत्रम्, तृणवृक्षमित्येकवद्भावः, तृणानि-दर्भादीनि / सूत्रम् वृक्षा:- कदम्बादयः, एतान्न छिन्द्यात् फलं मूलं वा कस्यचिद्वृक्षादेर्न छिन्द्यात्, तथा आमं अशस्त्रोपहतं विविधं अनेकप्रकार 13-16 बीजं न मनसाऽपि प्रार्थयेत्, किमुत अश्नीयादिति सूत्रार्थः॥१०॥ तथा गहणेसु'त्ति सूत्रम्, गहनेषु वननिकुञ्जेषु न तिष्ठेत्, अष्टौ सूक्ष्माणि तेषां विधिश्च। संघट्टनादिदोषप्रसङ्गात्, तथा बीजेषु प्रसारितशाल्यादिषु हरितेषु वा दूर्वादिषु न तिष्ठेत्, उदके तथा नित्यं अत्रोदकं- अनन्तवनस्पतिविशेषः, यथोक्तं- उदए अवए पणए इत्यादि, उदकमेवान्ये, तत्र नियमतो वनस्पतिभावात्, उत्तिङ्गपनकयोर्वा न तिष्ठेत्, तत्रोत्तिङ्गः-सर्पच्छत्रादिः पनकः- उल्लिवनस्पतिरिति सूत्रार्थः ॥११॥उक्तो वनस्पतिकायविधिः, त्रसकायविधिमाह'तस'त्ति सूत्रम्, त्रसप्राणिनो द्वीन्द्रियादीन्न हिंस्यात्, कथमित्याह-वाचा अथवा कर्मणा कायेन, मनसस्तदन्तर्गतत्वादग्रहणम्, अपिच- उपरतः सर्वभूतेषु निक्षिप्तदण्डः सन् पश्येद्विविधं जगत् कर्मपरतन्त्रं नरकादिगतिरूपम्, निर्वेदायेति सूत्रार्थः॥१२॥ अट्ठ सुहमाइ पेहाए, जाई जाणित्तु संजए। दयाहिगारी भूएसु, आस चिट्ठसएहि वा॥सूत्रम् 13 // कयराइं अट्ठ सुहुमाई?, जाइं पुच्छिन्न संजए। इमाइंताई मेहावी, आइक्विज विअक्खणो॥सूत्रम् 14 // सिणेहं पुप्फसुहुमं च, पाणुत्तिंगं तहेव य। पणगं बीअहरिअंच, अंडसुहुमं च अट्ठमं॥ सूत्रम् 15 // एवमेआणि जाणिज्जा, सव्वभावेण संजए। अप्पमत्तो जए निच्चं, सव्विंदिअसमाहिए। सूत्रम् 16 // 0 उदकं वनस्पतिविशेषः प्र.। 0 उदकमवकः पनकः। ॐ सारम्भाणामशक्यं वर्जनं यस्य, निरारम्भैः सूक्ष्मोपयोगेन वर्जनीयं यत्, स्वरूपेण वा सूक्ष्मताभाक् / // 357 //