________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 356 // अष्टममध्ययनं आचारप्रणिधिः, सूत्रम् 2-12 आचारप्रणिधौ षट्कायहिंसा प्रतिषेधः। करणैरित्यर्थः, एवं वर्तमानोऽहिंसकः सन् भवति संयतो, नान्यथेति सूत्रार्थः॥३॥ एवं सामान्येन षड्जीवनिकायाहिंसया संयतत्वमभिधायाधुना तद्गतविधीन्विधानतो विशेषेणाह-'पुढवित्ति सूत्रम्, पृथिवीं शुद्धां भित्तिं तटीं शिला पाषाणात्मिक लेष्टुं इट्टालखण्डं नैव भिन्द्यात् नो संलिखेत्, तत्र भेदनं द्वैधीभावोत्पादनं संलेखनं ईषल्लेखनं त्रिविधेन करणयोगेन न करोति मनसेत्यादिना संयतः साधुः सुसमाहितः शुद्धभाव इति सूत्रार्थः॥४॥ तथा सुद्ध'त्ति सूत्रम्, शुद्धपृथिव्यां अशस्त्रोपहतायामनन्तरितायां न निषीदेत्, तथा सरजस्के वा पृथ्वीरजोऽवगुण्ठिते वा आसने पीठकादौ न निषीदेत्, निषीदनग्रहणात्स्थानत्वग्वर्तनपरिग्रहः, अचेतनायां तु प्रमृज्य तां रजोहरणेन निषीदेत् ज्ञात्वे त्यचेतनां ज्ञात्वां याचयित्वाऽवग्रह मिति यस्य संबन्धिनी पृथिवी तमवग्रहमनुज्ञाप्येति सूत्रार्थः॥५॥ उक्तः पृथिवीकायविधिः, अधुना अप्कायविधिमाह-'सीओदगं'ति सूत्रम्, शीतोदकं पृथिव्युद्भवं सच्चित्तोदकं न सेवेत, तथा शिलावृष्टं हिमानि च न सेवेत, तत्र शिलाग्रहणेन करकाः परिगृह्यन्ते, वृष्टं वर्षणम्, हिमं प्रतीतं प्राय उत्तरापथे भवति / यद्येवं कथमयं वर्त्ततेत्याह- उष्णोदकं क्वथितोदकं तप्तप्रासुकं तप्तं सत्प्रासुकं त्रिदण्डोद्वृत्तम्, नोष्णोदकमात्रम्, प्रतिगृह्णीयाद्वृत्त्यर्थं संयतः साधु एतच्च सौवीराद्युपलक्षणमिति सूत्रार्थः // 6 // तथा उदउल्लं ति सूत्रम्, नदीमुत्तीर्णो भिक्षाप्रविष्टो वा वृष्टिहतः उदका उदकबिन्दुचितमात्मनः कायं शरीरं स्निग्धं वा नैव पुञ्छयेद् वस्त्रतृणादिभिः न संलिखेत् पाणिना, अपितु संप्रेक्ष्य निरीक्ष्य तथाभूतं उदकार्दादिरूपं नैव कायं संघट्टयेत् मुनिर्मनागपि नस्पृशेदिति सूत्रार्थः॥ 7 // उक्तोऽप्कायविधिः, तेजःकायविधिमाह-'इंगालं'ति सूत्रम्, अङ्गारं ज्वालारहितं अग्निं अयःपिण्डानुगतं अर्चिः छिन्नज्वालं अलातं उल्मुकंवा सज्योतिःसाग्निकमित्यर्थः, किमित्याह- नोत्सिञ्चेत् न घट्टयेत्, तत्रोञ्जनमुत्सेचनं प्रदीपादेः, घट्टनं मिथश्चालनम्, तथा नैनं- अग्निं निर्वापयेद् अभावमापादयेत् मुनिः साधुरिति सूत्रार्थः॥८॥प्रतिपादितस्तेजःकायविधिः, // 356 //