________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 354 // विरुद्धस्थानानि वर्जनीयानि इति गाथार्थः // 305 // एवमकरणे दोषमाह अष्टममध्ययनं नि०- दुप्पणिहिअजोगी पुण लंछिज्जइ संजमं अयाणंतो। वीसत्थनिसटुंगोव्व कंटइल्ले जह पडतो॥३०६॥ आचार प्रणिधिः, दुष्प्रणिहितयोगी पुनः सुप्रणिधिरहितस्तु प्रव्रजित इत्यर्थः लञ्छ्यते-खण्ड्यते संयममजानानः संयत एवेति / दृष्टान्तमाह नियुक्तिः 306 विश्रब्धो निसृष्टाङ्गस्तथा अयत्नपरः कण्टकवति श्वभ्रादौ यथा पतन् कश्चिल्लञ्छ्यते तद्वदसौ संयत इति गाथार्थः॥ 306 // प्रशस्तेतर प्रणिधेव्यतिरेकमाह र्गुणदोषाः। नि०- सुप्पणिहिअजोगी पुण न लिप्पई पुव्वभणिअदोसेहिं। निद्दहइ अकम्माई सुक्कतणाई जहा अग्गी॥३०७॥ नियुक्तिः सुप्रणिहितयोगी पुनः सुप्रणिहितः प्रव्रजितः पुनः न लिप्यते पूर्वभणितदोषैः कर्मबन्धादिभिः, संवृताश्रवद्वारत्वात्, निर्दहति 307-308 निगमनम् च कर्माणि प्राक्तनानि तपःप्रणिधिभावेन, दृष्टान्तमाह- शुष्कतृणानि यथा अग्निर्निर्दहति तद्वदिति गाथार्थः॥ 307 // सूत्रम् नि०- तम्हा उ अप्पसत्थं पणिहाणं उज्झिऊण समणेणं / पणिहाणमि पसत्थे भणिओ आयारपणिहित्ति // 308 // शिष्य संबोधनम्। यस्मादेवमप्रशस्तप्रणिधि१ःखद इतरश्च सुखदस्तस्माद् अप्रशस्तं प्रणिधानं अप्रशस्तं प्रणिधिं उज्झित्वा परित्यज्य श्रमणेन / साधुना प्रणिधाने प्रणिधौ प्रशस्ते कल्याणे, यत्नः कार्य इति वाक्यशेषः। निगमयन्नाह- भणित आचारप्रणिधिरिति गाथार्थः।। ३०८॥उक्तो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्यावसर इत्यादिचर्चः पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयम्, तच्चेदं आयारप्पणिहिं लद्धं, जहा कायव्व भिक्खुणा। तं भे उदाहरिस्सामि, आणुपुव्विं सुणेह मे / / सूत्रम् 1 / / आचारप्रणिधिं उक्तलक्षणं लब्ध्वा प्राप्य यथा येन प्रकारेण कर्तव्यं विहितानुष्ठानं भिक्षुणा साधुना तं प्रकारं भे भवद्भ्यः // 354 //