SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ आचार श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् / / 353 // तस्य इन्द्रियकषायवतः तेषां च इन्द्रियकषायाणां सम्यग्योगो भवति, एतदुक्तं भवति- यदि बाह्यचेष्टायामभ्यन्तरचेष्टायां च / अष्टममध्ययन तस्य च प्रणिधिमत इन्द्रियाणां कषायाणांच निग्रहो भवति ततः शुद्धः प्रणिधिरितरथा त्वशुद्धः, एवमपितत्त्वनीत्याऽभ्यन्तरैवल प्रणिधिः, चेष्टेह गरीयसीत्याह, अत एवमपि तत्त्वे प्रशस्तं चारु, तथाऽप्रशस्तमचारु लक्षणं प्रणिधेः अध्यात्मनिष्पन्नं अध्यवसानोगतमिति नियुक्तिः३०३ गाथार्थः // 302 // एतदेवाह प्रणिधेरुप संहारः। नि०- मायागारवसहिओ इंदिअनोइंदिएहिं अपसत्थो / धम्मत्था अपसत्थो इंदिअनोइंदिअप्पणिही॥३०३॥ नियुक्तिः ___मायागारवसहितो मातृस्थानयुक्त ऋद्ध्यादिगारवयुक्तश्चेन्द्रियनोइन्द्रिययोर्निग्रहं करोति, मातृस्थानत ईर्यादिप्रत्युपेक्षणं | 304-305 प्रशस्तेतरद्रव्यक्षान्त्याद्यासेवनंतथा ऋद्धयादिगारवाद्वेति अप्रशस्त इत्ययमप्रशस्तःप्रणिधिः / तथा धर्मार्थं प्रशस्त इति,मायागारवरहितो प्रणिधेधर्मार्थमेवेन्द्रियनोइन्द्रियनिग्रहं करोति यः स तदभेदोपचारात् प्रशस्तः सुन्दर इन्द्रियनोइन्द्रियप्रणिधिनिर्जराफलत्वादिति गुणदोषाः। गाथार्थः // 303 // साम्प्रतमप्रशस्तेतरप्रणिधेर्दोषगुणानाह नि०- अट्ठविहं कम्मरयं बंधइ अपसत्थपणिहिमाउत्तो। तं चेवखवेइ पुणो पसत्थपणिहीसमाउत्तो॥३०४॥ अष्टविधं ज्ञानावरणीयादिभेदात् कर्मरजो बध्नाति आदत्ते, क इत्याह- अप्रशस्तप्रणिधिमायुक्तः अप्रशस्तप्रणिधौ व्यवस्थित इत्यर्थः, तदेवाष्टविधं कर्मरजः क्षपयति पुनः, कदेत्याह- प्रशस्तप्रणिधिसमायुक्त इति गाथार्थः // ३०४॥संयमाद्यर्थं च प्रणिधिः प्रयोक्तव्य इत्याह नि०-दसणनाणचरित्ताणि संजमो तस्स साहणट्ठाए। पणिही पउंजिअव्वो अणायणाइंच वजाई। 305 // दर्शनज्ञानचारित्राणि संयमः संपूर्णः, तस्य संपूर्णसंयमस्य साधनार्थं प्रणिधिः प्रशस्तः प्रयोक्तव्यः, तथा अनायतनानि च // 353 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy