________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 352 // उक्त इन्द्रियप्रणिधिः, नोइन्द्रियप्रणिधिमाह अष्टममध्ययनं | नि०-कोहंमाणं मायं लोहं च महब्भयाणि चत्तारि / जो रुंभइ सुद्धप्पा एसोनोइंदिअप्पणिही / / 299 / / आचार प्रणिधिः, क्रोधं मानं मायां लोभं चेत्येतेषां स्वरूपमनन्तानुबन्ध्यादिभेदभिन्नं पूर्ववत्, एत एव च महाभयानि चत्वारि, सम्यग्दर्शनादि-नियुक्ति प्रतिबन्धरूपत्वात्। एतानियोरुणद्धि शुद्धात्मा उदयनिरोधादिना एष निरोद्धा क्रोधादिनिरोधपरिणामानन्यत्वान्नोइन्द्रियप्रणिधिः | 299-300 द्विविधोभावकुशलपरिणामत्वादिति गाथार्थः॥ 299 // एतदनिरोधे दोषमाह प्रणिधिः। नि०- जस्सवि अदुप्पणिहिआ होंति कसाया तवंचरंतस्स।सोबालतवस्सीविव गयण्हाणपरिस्समं कुणइ // 30 // नियुक्तिः 301-302 यस्यापि कस्यचिद्व्यवहारतपस्विनो दुष्प्रणिहिता- अनिरुद्धा भवन्ति कषायाः क्रोधादयः तपश्चरतः तपः कुर्वत इत्यर्थः, स प्रणिधेरुपबालतपस्वीव उपवासपारणकप्रभूततरारम्भको जीवो (यथा) गजस्नानपरिश्रमं करोति, चतुर्थषष्ठादिनिमित्ताभिधानतः प्रभूत- संहारः। कर्मबन्धोपपत्तेरिति गाथार्थः // 300 // अमुमेवार्थ स्पष्टतरमाह नि०-सामन्नमणुचरंतस्स कसाया जस्स उक्कडा होति / मन्नामि उच्छुफुल्लं व निष्फलं तस्स सामन्नं / / 301 // श्रामण्यमनुचरतः श्रमणभावमपि द्रव्यतः पालयत इत्यर्थः, कषाया यस्योत्कटा भवन्ति क्रोधादयः मन्ये इक्षुपुष्पमिव निष्फलं निर्जराफलमधिकृत्य तस्य श्रामण्यमिति गाथार्थः // 301 // उपसंहरन्नाह नि०- एसो दुविहो पणिही सुद्धो जइ दोसुतस्स तेसिंच / एत्तो पसत्थमपसत्थ लक्खणमज्झत्थनिष्फन्नं // 302 / / एषः अनन्तरोदितो द्विविधः प्रणिधिः इन्द्रियनोइन्द्रियलक्षणः शुद्ध इति निर्दोषो भवति, यदि द्वयोः बाह्याभ्यन्तरचेष्टयोः Oआवश्यके विस्तरेण पूर्वं व्याख्यानात् / // 352 //