________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् / / 351 // प्रणिधिमाह अष्टममध्ययन नि०-सद्देसु अरूवेसु अगंधेसुरसेसु तह य फासेसु / नवि रज्जइ न वि दुस्सइ एसा खलु इंदिअप्पणिही // 295 / / आचार प्रणिधिः, शब्देषु च रूपेषु च गन्धेषु रसेषु तथा च स्पर्शेषु एतेष्विन्द्रियार्थेष्विष्टानिष्टेषु चक्षुरादिभिरिन्द्रियैर्नापि रज्यते नापि द्विष्यते एष। नियुक्तिः खलु माध्यस्थ्यलक्षण इन्द्रियप्रणिधिः प्रशस्त इति भावार्थः, अन्यथा त्वप्रशस्तः // 295 // तत्र दोषमाह 295-298 द्विविधोभावनि०-सोइंदिअरस्सीहि उ मुक्काहिं सद्दमुच्छिओ जीवो। आइअइ अणाउत्तो सद्दगुणसमुट्ठिए दोसे / / 296 / / प्रणिधिः। श्रोत्रेन्द्रियरश्मिभिः श्रोत्रेन्द्रियरज्जुभिः मुक्ताभिः उच्छृङ्खलाभिः, किमित्याह- शब्दमूर्च्छितः शब्दगृद्धो जीव: आदत्ते गृह्णात्यनुपयुक्तः सन् , कानित्याह- शब्दगुणसमुत्थितान् दोषान्-शब्द एवेन्द्रियगुणस्तत्समुत्थितान् दोषान्- बन्धवधादीन् श्रोत्रेन्द्रियरज्जुभिरादत्त इति गाथार्थः // 296 // शेषेन्द्रियातिदेशमाह नि०-जह एसो सद्देसुंएसेव कमो उसेसएहिं पि। चउहिंपि इंदिएहिं रूवे गंधे रसे फासे // 297 // यथैष शब्देषु शब्दविषयः श्रोत्रेन्द्रियमधिकृत्य दोष उक्तः, एष एव क्रमः शेषैरपि चक्षुरादिभिश्चतुर्भिरपीन्द्रियैर्दोषाभिधाने द्रष्टव्यः, तद्यथा- चक्खिन्दिअरस्सीहि उ, इत्यादि, अत एवाह- रूपे गन्धे रसे स्पर्शे रूपादिविषय इति गाथार्थः / / 297 // अमुमेवार्थं दृष्टान्ताभिधानेनाहनि०- जस्स खलु दुप्पणिहिआणि इंदिआईतवंचरंतस्स। सो हीरइ असहीणेहिं सारही वा तुरंगेहिं // 298 // // 351 // यस्य खल्वि ति यस्यापि दुष्प्रणिहितानीन्द्रियाणि विश्रोतोगामीनि तपश्चरत इति तपोऽपि कुर्वतःस तथाभूतो हियते अपनीयते इन्द्रियैरेव निर्वाणहेतोश्चरणात्, दृष्टान्तमाह-'अस्वाधीनैः'अस्ववशैः सारथिरिव' रथनेतेव तुरङ्गमैः'अश्वैरितिगाथार्थः // 298 //