SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ श्रीदश वैकालिकं श्रीहारि० वृत्तियुतम् // 350 // // अथ अष्टममध्ययनं आचारप्रणिध्याख्यम्॥ अष्टममध्ययनं व्याख्यातं वाक्यशुद्ध्यध्ययनम्, इदानीमाचारप्रणिध्याख्यमारभ्यते, अस्य चायमभिसंबन्धः, इहानन्तराध्ययने साधुना आचार प्रणिधिः, वचनगुणदोषाभिज्ञेन निरवद्यवचसा वक्तव्यमित्येतदुक्तम्, इह तु तन्निरवद्यं वच आचारे प्रणिहितस्य भवतीति तत्र यत्नवता नियुक्तिः भवितव्यमित्येतदुच्यते, उक्तंच-पणिहाणरहिअस्सेह, निरवजंपि भासिआसावजतुल्लं विन्नेअं, अज्झत्थेणेह संवुडम्॥१॥इत्यनेनाभि- 293-294 अभिसम्बन्धः संबन्धेनायातमिदमध्ययनम्, अस्य चानुयोगद्वारोपन्यासः पूर्ववत्तावद्यावन्नामनिष्पन्नो निक्षेपः, तत्र चाचारप्रणिधिरिति द्विपदं प्रणिधिप्रतिनाम, तत्राचारनिक्षेपमतिदिशन् प्रणिधिं च प्रतिपादयन्नाह पादनचा नि०- जो पुव्विं उद्दिवो आयारो सो अहीणमइरित्तो। दुविहो अहोइ पणिही दव्वे भावे अनायव्वो // 293 // यः पूर्व क्षुल्लिकाचारकथायामुद्दिष्ट आचारः सोऽहीनातिरिक्त:- तदवस्थ एवेहापि द्रष्टव्य इति वाक्यशेषः, क्षुण्णत्वान्नामस्थापने अनादृत्य प्रणिधिमधिकृत्याह- द्विविधश्च भवति प्रणिधिः, कथमित्याह- द्रव्य इति द्रव्यविषयो भाव इति भावविषयश्च ज्ञातव्य इति गाथार्थः॥ 293 // तत्र नि०- दव्वे निहाणमाई मायपउत्ताणि चेव दव्वाणि ।भाविंदिअनोइंदिअदुविहो उ पसत्थ अपसत्थो॥२९४॥ द्रव्य इति द्रव्यविषयः प्रणिधिः निधानादि प्रणिहितं निधानं निक्षिप्तमित्यर्थः, आदिशब्दः स्वभेदप्रख्यापकः, मायाप्रयुक्तानि / चेह द्रव्याणि द्रव्यप्रणिधिः, पुरुषस्य स्त्रीवेषेण पलायनादिकरणं स्त्रियो वा पुरुषवेषेणेत्यादि / तथा भाव इति भावप्रणिधिर्द्विविधः- इन्द्रियप्रणिधिनॊइन्द्रियप्रणिधिश्च, तत्रेन्द्रियप्रणिधिर्द्विविधः- प्रशस्तोऽप्रशस्तश्चेति गाथार्थः / / 294 // प्रशस्तमिन्द्रिय 0प्रणिधानरहितस्येह निरवद्यमपि भाषितम् / सावद्यतुल्यं विज्ञेयं अध्यात्मस्थेनेह संवृतम् // 1 // // 350 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy