________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 349 // धुन्नमलं पापमलं पुराकृतं जन्मान्तरकृतम्, किमिति?- आराधयति' प्रगुणीकरोति लोकं एनं मनुष्यलोकं वाक्संयतत्वेन, तथा पर मिति परलोकमाराधयति निर्वाणलोकम्, यथासंभवमनन्तरं पारम्पर्येण वेतिगर्भः। ब्रवीमीति पूर्ववत् / नयाः पूर्ववदेव॥ 57 // सप्तममध्ययनं वाक्यशुद्धिः, सूत्रम् 55-57 वाक्यशुद्धिफलम्। ॥सूरिपुरन्दरश्रीमद्धरिभद्रसूरिविरचितायां दशवैकालिकबृहद्वृत्ती सप्तममध्ययनं वाक्यशुद्ध्याख्यं समाप्तमिति॥ // 349 / /