________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 347 // तहेव सावजणुमोअणी गिरा, ओहारिणी जाय परोवघाइणी। से कोह लोह भय हास माणवो, न हासमाणोऽवि गिरं वइजा। सप्तममध्ययन सूत्रम् 54 // वाक्यशुद्धिः, सूत्रम् किंच-'देवाणं ति सूत्रम्, देवानां देवासुराणां मनुजानां नरेन्द्रादीनां तिरश्चां महिषादीनां च विग्रहे संग्रामे सति अमुकानां 50-54 देवादीनां जयो भवतु मा वा भवत्विति नो वदेद्, अधिकरणतत्स्वाम्यादिद्वेषदोषप्रसङ्गादिति सूत्रार्थः॥५०॥ किं च- संग्रामाद्या |श्रित्य'वाउ'त्ति सूत्रम्, वातोमलयमारुतादिः, वृष्टं वा वर्षणम्, शीतोष्णं प्रतीतं क्षेमं राजविड्रशून्यंध्रातं सुभिक्षं शिव मिति चोपसर्गरहितं सावद्यकदा नु भवेयुः एतानि वातादीनि, मा वा भवेयुरिति धर्माद्यभिभूतो नो वदेद्, अधिकरणादिदोषप्रसङ्गाद्, वातादिषु सत्सु वर्जनम्। सत्त्वपीडापत्तेः तद्वचनतस्तथाभवनेऽप्यार्तध्यानभावादिति सूत्रार्थः॥५१॥'तहेव'त्ति सूत्रम्, तथैव मेघ वा नभो वा मानव वाऽऽश्रित्य नो देवदेवत्ति गिरं वदेत्, मेघमुन्नतं दृष्ट्वा उन्नतो देव इति नो वदेत्, एवं 'नभ' आकाशं मानवं' राजानं वा देवमिति / नो वदेत्, मिथ्यावादलाघवादिप्रसङ्गात् / कथं तर्हि वदेदित्याह- उन्नतं दृष्ट्वा संमूर्छित उन्नतो वा पयोद इति, वदेद्वा वृष्टो बलाहक इति सूत्रार्थः॥५२॥ नभ आश्रित्याह-'अंतलिक्ख'त्ति सूत्रम्, इह नभोऽन्तरिक्षमिति ब्रूयाद्ह्यानुचरितमिति वा, सुरसेवितमित्यर्थः, एवं किल मेघोऽप्येतदुभयशब्दवाच्य एव / तथा ऋद्धिमन्तं संपदुपेतं नरं दृष्टा, किमित्याह- रिद्धिमंत मिति ऋद्धिमानयमित्येवमालपेत्, व्यवहारतो मृषावादादिपरिहारार्थमिति सूत्रार्थः // 53 // किंच-'तहेव'त्तिसूत्रम्, तथैव सावद्यानु-8 मोदिनी गीः वाग् यथा सुष्ठ हतो ग्राम इति, तथा अवधारिणी इदमित्थमेवेति, संशयकारिणी वा, या च परोपघातिनी यथामांसमदोषाय से इति तामेवंभूतां क्रोधाल्लोभाद्भयाद्धासाद्वा, मानप्रेमादीनामुपलक्षणमेतत्, मानवः पुमान् साधुन हसन्नपि गिरं / ®एवमर्थे समाप्तावित्युक्तेरेवमर्थोत्रेतिस्तेन न देवमिति विरुद्धम् / // 347 //