________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् / / 345 // सप्तममध्ययनं वाक्यशुद्धिः, सूत्रम् 44-46 सर्वोत्कृष्ट| मित्यादि सावध वर्जनम्। सव्वमेअंवइस्सामि, सव्वमेअंतिनो वए। अणुवीइ सव्वं सव्वत्थ, एवं भासिज्ज पन्नवं ।।सूत्रम् 44 / / सुक्कीअंवा सुविक्कीअं, अकिजं किजमेव वा। इमं गिण्ह इमं मुंच, पणीअंनो विआगरे॥सूत्रम् 45 / / अप्पग्घे वा महग्घे वा, कए वा विक्कएवि वा / पणिअढे समुप्पन्ने, अणवजं विआगरे। सूत्रम् 46 // क्वचिव्यवहारे प्रक्रान्ते पृष्टोऽपृष्टोवा नैवंब्रूयादित्याह-'सव्वुक्कसं'ति सूत्रम्, एतन्मध्य इदं सर्वोत्कृष्ट स्वभावेन सुन्दरमित्यर्थः, परार्धं वा उत्तमा वा महाघ क्रीतमिति भावः अतुलं नास्तीदृशमन्यत्रापि क्वचित्, अविक्किअंति असंस्कृतं सुलभमीदृशमन्यत्रापि, अवक्तव्य मित्यनन्तगुणमेतत् अविअत्तं वा- अप्रीतिकरं चैतदिति नो वदेत्, अधिकरणान्तरायादिदोषप्रसङ्गादिति सूत्रार्थः // 43 // किं च-'सव्वमेअंति सूत्रम्, सर्वमेतद्वक्ष्यामी ति केनचित् कस्यचित् संदिष्टे सर्वमेतत्त्वया वक्तव्यमिति सर्वमेतद्वक्ष्यामीति नो वदेत्, सर्वस्य तथास्वरव्यञ्जनाद्युपेतस्य वक्तुमशक्यत्वात्, तथा सर्वमेतदिति नो वदेत्, कस्यचित्संदेश प्रयच्छन् सर्वमेतदित्येवं वक्तव्य इति नोवदेत्, सर्वस्य तथास्वरव्यञ्जनाद्युपेतस्य वक्तुमशक्यत्वात्, असंभवाभिधाने मृषावादः, यतश्चैवमतः अनुचिन्त्य आलोच्य सर्व वाच्यं सर्वत्र कार्येषु यथा असंभवाद्यभिधानादिना मृषावादोन भवत्येवं भाषेत प्रज्ञावान् साधुरिति सूत्रार्थः॥४४॥ किंच-'सुक्कीअंव'त्ति सूत्रम्, सुक्रीतं वे ति किञ्चित् केनचित् क्रीतं दर्शितं सत्सुक्रीतमिति न व्यागृणीयात् इति योगः, तथा सुविक्रीत मिति किञ्चित्केनचिद्विक्रीतं दृष्ट्वा पृष्टः सन् सुविक्रीतमिति न व्यागृणयात् तथा केनचित् क्रीते पृष्टः 'अक्रेयं' क्रयाहमेव न भवतीति न व्यागृणीयात्, तथैवमेव क्रेयमेव वा क्रयार्हमेवेति, तथा इदं गुडादि गृहाणागामिनि काले महाघ भविष्यति तथा इदं मुञ्च घृताद्यागामिनि काले समधु भविष्यतीतिकृत्वा पणितं पण्यं नैव व्यागृणीयात्, अप्रीत्यधिकरणादिदोषप्रसङ्गादिति सूत्रार्थः॥४५॥ अत्रैव विधिमाह-'अप्पग्घे व'त्ति सूत्रम्, अल्पार्धे वा // 345 //