________________ वैकालिकं श्रीहारि० वृत्तियुतम् // 344 // सावध वर्त्तमानं वाशब्दाद्भविष्यत्कालभाविनं वा ज्ञात्वा सावद्यं नालपेत् सपापं न ब्रूयात् मुनिः साधुरिति सूत्रार्थः // 40 // सप्तममध्ययनं सुकडित्ति सुपक्कित्ति, सुच्छिन्ने सुहडे मडे / सुनिट्ठिए सुलट्ठित्ति, सावखं वजए मुणी।सूत्रम् 41 // वाक्यशुद्धिः, सूत्रम् पयत्तपक्कत्ति व पक्कमालवे, पयत्तछिन्नत्ति व छिन्नमालवे।पयत्तलट्ठित्ति व कम्महेउअं,पहारगाढत्ति व गाढमालवे॥सूत्रम् 42 // 41-42 तत्र निष्ठितं नैवं ब्रूयादित्याह-'सुकडि'त्ति सूत्रम्, सुकृत मिति सुष्टु कृतं सभादि सुपक्व मिति सुष्ठु पक्वं सहस्रपाकादि। सुकृत मित्यादि सुच्छिन्न मिति सुष्टु छिन्नंतद्वनादि सुहृत मिति सुष्ठु हृतं क्षुद्रस्य वित्तं सुमृत इति सुष्टु मृतः प्रत्यनीक इति, अत्रापि सुशब्दोऽनुवर्तते, सुनिष्ठित मिति सुष्टु निष्ठितं वित्ताभिमानिनो वित्तं सुलट्ठि त्ति सुष्टु सुन्दरा कन्या इत्येवं सावद्यमालपनं वर्जयेद् मुनिः, वर्जनम्। सूत्रम् 43 अनुमत्यादिदोषप्रसङ्गात्, निरवद्यं तु न वर्जयेत्, यथा- सुकृत मिति सुष्टु कृतं वैयावृत्त्यमनेन सुपक्व मिति सुष्ठु पक्वं ब्रह्मचर्य / सर्वोत्कृष्टसाधोः सुच्छिन्न मिति सुष्ठ छिन्नं स्नेहबन्धनमनेन, सुहृत मिति सुष्ठ हृतं शिक्षकोपकरणमुपसर्गे सुमृत इति सुष्ठ मृतः पण्डितमरणेन मित्यादिसाधुरिति, अत्रापि सुशब्दोऽनुवर्त्तते, सुनिष्ठित मिति सुष्ठु निष्ठितं कर्माप्रमत्तसंयतस्य सुलट्ठ त्ति सुष्ठुसुन्दरा साधुक्रियेत्येवमादीति / सावध वर्जनम्। सूत्रार्थः॥४१॥ उक्तानुक्तापवादविधिमाह-‘पयत्त'त्ति सूत्रम्, प्रयत्नपक्व मिति वा प्रयत्नपक्वमेतत् पक्वं सहस्रपाकादि ग्लानप्रयोजन एवमालपेत्, तथा प्रयत्नच्छिन्न मिति वा प्रयत्नच्छिन्नमेतत् छिन्नं वनादि साधुनिवेदनादौ एवमालपेत्, तथा प्रयत्नलष्टे ति वा प्रयत्नसुन्दरा कन्या दीक्षिता सती सम्यक् पालनीयेति कर्महेतुक मिति सर्वमेव वा कृतादि कर्मनिमित्तमालपेदिति योगः, तथा गाढप्रहार मिति वा कञ्चन गाढमालपेत्- गाढप्रहारं ब्रूयात् क्वचित्प्रयोजने, एवं हि तदप्रीत्यादयो दोषाः परिहृता भवन्तीति सूत्रार्थः॥४२॥ सव्वुक्कसं परग्धं वा, अउलं नत्थि एरिसं / अविक्किअमवत्तव्वं, अविअत्तं चेव नो वए ।सूत्रम् 43 // // 344 //