SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् / / 343 / / सप्तममध्ययनं वाक्यशुद्धिः, सूत्रम् 38-40 नदीमधिकृत्य वाग्विधिः। केनचित्पृष्टः सन्नो वदेत्, अधिकरणविघातादिदोषप्रसङ्गादिति सूत्रार्थः // 36 // प्रयोजने पुनरेवं वदेदित्याह- संखडि न्ति सूत्रम्, संखडिं संखडिं ब्रूयात्, साधुकथनादौ संकीर्णा संखडीत्येवमादि, पणितार्थ इति स्तेनकं वदेत्, शैक्षकादिकर्मविपाकदर्शनादौ, पणितेनार्थोऽस्येति पणितार्थः, प्राणद्यूतप्रयोजन इत्यर्थः, तथा बहुसमानि तीर्थानि आपगानां नदीनां व्यागृणीयात् साध्वादिविषय इति सूत्रार्थः // 37 // तहा नईओ पुण्णाओ, कायतिज्जत्ति नो वए। नावाहिं तारिमाउत्ति, पाणिपिज्जत्ति नो वए। सूत्रम् 38 // बहुवाहडा अगाहा, बहुसलिलुप्पिलोदगा / बहुवित्थडोदगा आवि, एवं भासिज्ज पन्नवं॥सूत्रम् 39 // तहेव सावजंजोगं, परस्सट्ठा अनिट्ठिा कीरमाणंति वा नच्चा, सावजं न लवे मुणी॥सूत्रम् 40 // वाग्विधिप्रतिषेधाधिकार एवेदमाह-'तहा नईउ'त्तिसूत्रम्, तथा नद्यः पूर्णा भृता इति नोवदेत्, प्रवृत्तश्रवणनिवर्त्तनादिदोषात्, तथा कायतरणीयाः शरीरतरणयोग्या इति नो वदेत्, साधुवचनतोऽविघ्नमिति प्रवर्त्तनादिप्रसङ्गात्, तथा नौभिः-द्रोणीभिस्तरणीयाः-तरणयोग्या इत्येवं नो वदेत्, अन्यथा विघ्नशङ्कया तत्प्रवर्त्तनात् तथा प्राणिपेयाः तटस्थप्राणिपेया नोवदेदिति, तथैव प्रवर्तनादिदोषादिति सूत्रार्थः // 38 // प्रयोजने तु साधुमार्गकथनादावेवं भाषेतेत्याह- बहुवाहड त्ति सूत्रम्, बहुभृताः प्रायशो भृता इत्यर्थः, तथा अगाधा इति बह्वगाधाः प्रायो गम्भीराः, तथा बहुसलिलोत्पीलोदकाः प्रतिस्रोतोवाहितापरसरित इत्यर्थः, तथा विस्तीर्णोदकाश्च स्वतीरप्लावनप्रवृत्तजलाश्च, एवं भाषेत प्रज्ञावान् साधुः, न तु तदाऽऽगतपृष्टो न वेम्यहमिति ब्रूयात्, प्रत्यक्षमृषावादित्वेन तत्प्रद्वेषादिदोषप्रसङ्गादिति सूत्रार्थः // 39 // वाग्विधिप्रतिषेधाधिकार एवेदमाह-'तहेव'त्ति सूत्रम्, तथैव सावा सपापं योगं व्यापारमधिकरणं सभादिविषयं परस्यार्थाय परनिमित्तं निष्ठितं निष्पन्नं तथा क्रियमाणं वा // 343 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy