________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् / / 337 // नाशस्थिररोगबुद्धिविराधनादिदोषप्रसङ्गादिति गाथार्थः॥१२॥ एएण'त्तिसूत्रम्, एतेनान्येन वाऽर्थेनोक्तेन सता परो येनोपहन्यते, सप्तममध्ययनं येन केनचित्प्रकारेण।आचारभावदोषज्ञो यतिर्न तंभाषेत प्रज्ञावांस्तमर्थमिति सूत्रार्थः॥१३॥ तहेव'त्ति सूत्रम्, तथैवेति पूर्ववत्, वाक्यशुद्धिः, सूत्रम् 11-20 होलो गोल इति श्वा वा वसुल इति वा द्रमको वा दुर्भगश्चापि नैवं भाषेत प्रज्ञावान् / इह होलादिशब्दास्तत्तद्देशप्रसिद्धितो पुरुषादिमानष्ठुर्यादिवाचकाः अतस्तत्प्रतिषेध इति सूत्रार्थः॥१४॥एवं स्त्रीपुरुषयोः सामान्येन भाषणप्रतिषेधं कृत्वाऽधुना स्त्रियमधि- श्रित्यालपन प्रतिषेधः। कृत्याह- 'अज्जिए'त्ति सूत्रम्, आर्जिके प्रार्जिके वापि अम्ब मातृष्वस इति च पितृष्वसः भागिनेयीति दुहितः नप्त्रीति च / एतान्यामन्त्रणवचनानि वर्तन्ते, तत्र मातुः पितुर्वा माताऽऽर्यिका, तस्या अपि याऽन्या माता सा प्रार्यिका, शेषाभिधानानि प्रकटार्थान्येवेति सूत्रार्थः // 15 // किंच-हले हले त्ति सूत्रम्, हले हले इत्येवमन्ने इत्येवं तथा भट्ट स्वामिनि गोमिनि। तथा होले गोले वसुले इति, एतान्यपि नानादेशापेक्षया आमन्त्रणवचनानि गौरवकुत्सादिगर्भाणि वर्तन्ते, यतश्चैवमतः स्त्रियं नैवं हलादिशब्दैरालपेदिति, दोषाश्चैवमालपनं कुर्वतःसङ्गगत्तत्प्रद्वेषप्रवचनलाघवादय इति सूत्रार्थः॥१६॥ यदि नैवमालपेत् कथं तालपेदित्याह- 'नामधिज्जेणं'ति सूत्रम्, नामधेयेने ति नाम्नैव एनां ब्रूयात्स्त्रियं क्वचित्कारणे यथा देवदत्ते! इत्येवमादि। नामास्मरणादौ गोत्रेण वा पुनर्च्यात् स्त्रियं यथा काश्यपगोत्रे! इत्येवमादि, यथार्फ यथायथं वयोदेशैश्वर्याद्यपेक्षया अभिगृह्य गुणदोषानालोच्य आलपेल्लपेद्वा ईषत्सकृद्वालपनमालपनमतोऽन्यथा लपनम्, तत्र वयोवृद्वा मध्यदेशे ईश्वरा धर्मप्रियाऽन्यत्रोच्यते / धर्मशीले इत्यादिना, अन्यथा च यथा न लोकोपघात इति सूत्रार्थः॥१७॥ उक्तः स्त्रियमधिकृत्यालपनप्रतिषेधो विधिश्च, साम्प्रतं पुरुषमाश्रित्याह-'अज्जए'त्ति सूत्रम्, आर्यकः प्रार्यकश्चापि बप्पश्चुल्लपितेति च, तथा मातुल भागिनेयेति पुत्र नप्त इति च, इह भावार्थः स्त्रियामिव द्रष्टव्यः, नवरं चुल्लबप्पः पितृव्योऽभिधीयत इति सूत्रार्थः॥१८॥ किंच-'हे भो'त्ति सूत्रम्, हे भो // 337 //