SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 335 // वक्ति भूतोपघातिनीं वाचं?,स सुतरां बद्ध्यत इति सूत्रार्थः॥५॥'तम्ह'त्ति सूत्रम्, यस्माद्वितथं तथामूर्त्यपि वस्त्वङ्गीकृत्य सप्तममध्ययनं भाषमाणो बद्ध्यते तस्माद्गमिष्याम एव श्व इतोऽन्यत्र, वक्ष्याम एव श्वस्तत्तदौषधनिमित्तमिति, अमुकं वा नः कार्यं वसत्यादि। वाक्यशुद्धिः, सूत्रम् 8-10 भविष्यत्येव, अहंचेदं लोचादि करिष्यामि नियमेन, एष वासाधुरस्माकं विश्रामणादि करिष्यत्येवेति सूत्रार्थः॥६॥ एवमाइ'त्ति शङ्कितभाषा सूत्रम्, एवमाद्या तु या भाषा, आदिशब्दात् पुस्तकं ते दास्याम्येवेत्येवमादिपरिग्रहः, एष्यत्कालेभविष्यत्कालविषया, बहुविघ्न- विवर्जनम्। त्वात् मुहूर्तादीनां शङ्किता किमिदमित्थमेव भविष्यत्युतान्यथेत्यनिश्चितगोचरा, तथा साम्प्रतातीतार्थयोरपि या शङ्किता, साम्प्रतार्थे स्त्रीपुरुषाविनिश्चये एष पुरुष इति, अतीतार्थेऽप्येवमेव बलीवर्दतत्स्त्र्याद्यनिश्चये तदाऽत्र गौरस्माभिदृष्ट इति।। याप्येवंभूता भाषाशङ्किता तामपि धीरो विवर्जयेत्, तत्तथाभावनिश्चयाभावेन व्यभिचारतो मृषात्वोपपत्तेः, विघ्नतोऽगमनादौ गृहस्थमध्ये लाघवादिप्रसङ्गात्, सर्वमेव सावसरं वक्तव्यमिति सूत्रार्थः॥७॥ किंच अईअंमि अकालंमि, पञ्चुप्पण्णमणागए। जमटुंतुन जाणिज्जा, एवमेअंति नो वए। सूत्रम् 8 // अईअंमि अकालंमि, पचुप्पण्णमणागए। जत्थ संका भवे तंतु, एवमेअंति नो वए। सूत्रम् 9 // अईयंमि अकालंमि, पचुप्पण्णमणागए। निस्संकिअंभवे जंतु, एवमेअंतु निद्दिसे // सूत्रम् 10 // 'अईयंमि'त्ति सूत्रम्, अतीते च काले तथा प्रत्युत्पन्ने वर्तमानेऽनागते च यमर्थं तु न जानीयात् सम्यगेवमयमिति, तमङ्गीकृत्य एवमेतदिति न ब्रूयादिति सूत्रार्थः, अयमज्ञातभाषणप्रतिषेधः॥८॥तथा-'अईयम्मि'त्ति सूत्रम्, अतीते च काले प्रत्युत्पन्ने - नागते यत्रार्थे शङ्का भवेदिति तमप्यर्थमाश्रित्यैवमेतदिति न ब्रूयादिति सूत्रार्थः, अयमपि विशेषतः शङ्कितभाषणप्रतिषेधः॥ 9 // तथा-'अईयंमित्तिसूत्रम्, अतीते च काले प्रत्युत्पन्नेऽनागते निःशङ्कितं भवेत्, यदर्थजातं तुशब्दादनवद्यम्, तदेवमेतदिति // 335 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy