________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 334 // भाषा तथाभूतोक्ता, साम्प्रतं यथाभूता वाच्या तथाभूतामाह- ‘असच्चमोसं'ति सूत्रम्, असत्यामृषां उक्तलक्षणां सत्यां च उक्त- सप्तममध्ययनं लक्षणामेव, इयं च सावद्यापि कर्कशापि भवत्यत आह- असावद्यां अपापां अकर्कशां अतिशयोक्त्या ह्यमत्सरपूर्वां संप्रेक्ष्य वाक्यशुद्धिः, सूत्रम् 5-7 स्वपरोपकारिणीति बुद्ध्याऽऽलोच्य असंदिग्धां स्पष्टामक्षेपेण प्रतिपत्तिहेतुं गिरंवाचं भाषेत ब्रूयात् प्रज्ञावान् बुद्धिमान् साधुरिति वितथादिसूत्रार्थः॥३॥साम्प्रतं सत्यासत्यामृषाप्रतिषेधार्थमाह- ‘एअंच'त्ति सूत्रम्, एतं चार्थं अनन्तरप्रतिषिद्धं सावद्यकर्कशविषयं भाषा विवर्जनम्। अन्यं वा एवंजातीयम्, प्राकृतशैल्या यस्तु नामयति शाश्वतं य एव कश्चिदर्थो नामयति- अननुगुणं करोति शाश्वतं- मोक्षं तमाश्रित्य ससाधुः पूर्वोक्तभाषाभाषकत्वेनाधिकृतो भाषां सत्यामृषामपिपूर्वोक्ताम्, अपिशब्दात्सत्यापिया तथाभूता तामपि धीरो बुद्धिमान् विवर्जयेत् न ब्रूयादिति भावः। आह- सत्यामृषाभाषाया ओघत एव प्रतिषेधात्तथाविधसत्यायाश्च सावद्यत्वेन गतार्थं सूत्रमिति, उच्यते,मोक्षपीडाकरंसूक्ष्ममप्यर्थमङ्गीकृत्यान्यतरभाषाभाषणमपि न कर्तव्यमित्यतिशयप्रदर्शनपरमेतददुष्टमेवेति सूत्रार्थः॥४॥ वितहपि तहामुत्तिं, जं गिरं भासए नरो। तम्हा सो पुट्ठो पावेणं, किं पुणं जो मुसं वए?॥ सूत्रम् 5 // तम्हा गच्छामो वक्खामो, अमुगवाणे भविस्सइ / अहं वाणं करिस्सामि, एसो वाणं करिस्सइ / / सूत्रम् 6 // एवमाइ उजा भासा, एसकालंमि संकिआ। संपयाइअमट्टे वा, तंपि धीरो विवज्जए।सूत्रम् 7 // साम्प्रतं मृषाभाषासंरक्षणार्थमाह-'वितहपित्ति सूत्रम्, वितथं अतथ्यं तथामूर्त्यपि कथंचित्तत्स्वरूपमपि वस्तु, अपिशब्दस्य व्यवहितः संबन्धः, एतदुक्तं भवति- पुरुषनेपथ्यस्थितवनिताद्यप्यङ्गीकृत्य यां गिरं भाषते नरः, इयं स्त्री आगच्छति गायति। वेत्यादिरूपाम्, तस्माद् भाषणादेवंभूतात्पूर्वमेवासौ वक्ता भाषणाभिसन्धिकाले स्पृष्टः पापेन बद्धः कर्मणा, किं पुनर्यो मृषा // 334 //