________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 333 // वाच्या पूर्वं प्रथममेव वचनोच्चारणकाले बुद्ध्या प्रेक्ष्य वाच्यं दृष्ट्वा पश्चाद्वाक्यमुदाहरेत्, अर्थापत्त्या कस्यचिदपीडाकरमित्यर्थः, सप्तममध्ययन दृष्टान्तमाह-अचक्षुष्मानिव अन्ध इव नेतारं आकर्षकं बुद्धिमन्वेतु ते गीः बुद्ध्यनुसारेण वाक्प्रवर्ततामिति श्लोकार्थः / / 292 // वाक्यशुद्धिः, उक्तो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पन्नस्यावसर इत्यादिचर्चः पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं. नियुक्तिः 292 वचनविधिः। सूत्रमुच्चारणीयम्, तच्चेदं सूत्रम् 1-4 चउण्हं खलु भासाणं, परिसंखाय पन्नवं / दुण्हं तु विणयं सिक्खे, दोन भासिज्ज सव्वसो॥सूत्रम् 1 // वाच्यभाषा। जा असच्चा अवत्तव्वा, सच्चामोसा अजा मुसा / जा अबुद्धेहिं नाइन्ना, नतं भासिज्ज पन्नवं॥सूत्रम् 2 // असच्चमोसं सच्चंच, अणवजमकक्कसं। समुप्पेहमसंदिद्धं, गिरं भासिज्ज पन्नवं / / सूत्रम् 3 // एअंच अट्ठमन्नं वा, जंतु नामेइ सासयं / सभासं सच्चमोसंपि, तंपि धीरो विवज्जए। सूत्रम् 4 // चतसृणांखलु भाषाणाम्, खलुशब्दोऽवधारणे, चतसृणामेव, नातोऽन्या भाषा विद्यत इति, भाषाणां सत्यादीनां परिसंख्याय सर्वैः प्रकारैत्विा, स्वरूपमिति वाक्यशेषः प्रज्ञावान्प्राज्ञोबुद्धिमान्साधुः, किमित्याह-द्वाभ्यां सत्यासत्यामृषाभ्यां तुरवधारणे द्वाभ्यामेवाभ्यां विनयं शुद्धप्रयोगं विनीयतेऽनेन कर्मेतिकृत्वा शिक्षेत जानीयात्, द्वे असत्यासत्यामृषे न भाषेत सर्वशः सर्वैः प्रकारैरिति सूत्रार्थः॥१॥विनयमेवाह-जा असच्च'त्ति सूत्रम्, या च सत्या पदार्थतत्त्वमङ्गीकृत्य अवक्तव्या अनुच्चारणीया सावद्यत्वेन, अमुत्र स्थिता पल्लीति कौशिकभाषावत्, सत्यामृषा वा यथा दश दारका जाता इत्यादिलक्षणा, मृषा च संपूर्णैव, चशब्दस्य व्यवहितः संबन्धः, याच बुद्धैः तीर्थकरगणधरैरनाचरिता असत्यामृषा आमन्त्रण्याज्ञापन्यादिलक्षणा अविधिपूर्वकं स्वरादिना प्रकारेण, नैना भाषेत नेत्थंभूतां वाचं समुदाहरेत् प्रज्ञावान् बुद्धिमान् साधुरिति सूत्रार्थः॥२॥ यथाभूताऽवाच्या