SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् // 332 // नि०-जं वक्त्रं वयमाणस्स संजमो सुज्झई न पुण हिंसा / न य अत्तकलुसभावो तेण इहं वक्कसुद्धित्ति / / 288 // यद् यस्माद्वाक्यं शुद्धं वदतः सतः संयमः शुद्ध्यति, शुद्ध्यतीति निर्मल उपजायते, न पुनहिंसा भवति कौशिकादेरिव, न चात्मनः कलुषभावः कालुष्यं- दुष्टाभिसन्धिरूपं संजायते, तेन कारणेन इह प्रवचने वाक्यशुद्धिर्भावशुद्धेनिमित्तमित्यतोऽत्र प्रयतितव्यमिति गाथार्थः / / 288 // ततश्चैतदेव कर्तव्यमित्याह नि०-वयणविभत्तीकुसलस्स संजमंमी समुजुयमइस्स।दुब्भासिएण हुन्जा हु विराहणा तत्थ जइअव्वं // 289 // वचनविभक्तिकुशलस्य वाच्येतरवचनप्रकाराभिज्ञस्य न केवलमित्थंभूतस्यापि तु संयमे उ(समु)द्यतमतेः अहिंसायां प्रवृत्तचित्तस्येत्यर्थः तस्याप्येवंभूतस्य कथंचिदुर्भाषितेन कृतेन भवेत् विराधना-परलोकपीडा अतः तत्र दुर्भाषितवाक्यपरिज्ञाने यतितव्यं प्रयत्नः कार्य इति गाथार्थः ॥२८९॥आह-यद्येवमलमनेनैव प्रयासेन, मौनं श्रेय इति, न, अज्ञस्य तत्रापि दोषाद्, आह च नि०- वयणविभत्तिअकुसलो वओगयं बहुविहं अयाणंतो। जइविन भासइ किंचीन चेव वयगुत्तयं पत्तो॥२९०॥ वचनविभक्त्यकुशलोवाच्येतरप्रकारानभिज्ञः वाग्गतं बहुविधं उत्सर्गादिभेदभिन्नमजानानः यद्यपिन भाषते किञ्चित् मौनेनैवास्ते, न चैव वाग्गुप्ततां प्राप्तः, तथाप्यसौ अवाग्गुप्त एवेति गाथार्थः / / 290 // व्यतिरेकमाह नि०- वयणविभत्तीकुसलो वओगयं बहुविहं वियाणंतो। दिवसंपि भासमाणो तहावि वयगुत्तयं पत्तो॥२९१ / / वचनविभक्तिकुशलोवाच्येतरप्रकाराभिज्ञः वाग्गतं बहुविधमुत्सर्गादिभेदभिन्नं विजान दिवसमपि भाषमाणः सिद्धान्तविधिना तथापि वाग्गुप्ततां प्राप्तः, वाग्गुप्त एवासाविति गाथार्थः // 291 // साम्प्रतं वचनविभक्तिकुशलस्यौघतो वचनविधिमाह नि०- पुव्वं बुद्धीइ पेहित्ता, पच्छा वयमुयाहरे। अचक्खुओ व नेतारं, बुद्धिमन्नेउ ते गिरा // 292 // सप्तममध्ययनं वाक्यशुद्धिः, नियुक्ति: 288 शुद्धिनिक्षेपाः। नियुक्तिः 289-291 वाक्यपरिज्ञानहेतुः। नियुक्ति: 292 वचनविधिः। // 332 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy