________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 331 // सप्तममध्ययन वाक्यशुद्धिः, नियुक्तिः | 286-287 शुद्धिनिक्षेपाः। तत्र चैवंभूतचिन्ताव्यतिकरे शुक्लमधुरौ वर्णरसौ तुशब्दात्सुरभिमृदू गन्धस्पर्शी च संमतौ, यथाभिप्रायमपि प्रायो मनोजौ, बहूनामित्थंप्रवृत्तिसिद्धेः, उत्कृष्टौ च कमनीयौ च / चशब्दस्य व्यवहित उपन्यास इति गाथार्थः // 285 // उक्ता द्रव्यशुद्धिः, अधुना भावशुद्धिमाह नि०- एमेव भावसुद्धी तब्भावाएसओ पहाणे आतब्भावगमाएसो अणण्णमीसा हवइ सुद्धी // 286 // एवमेवे ति यथा द्रव्यशुद्धिस्तथा भावशुद्धिरपि, त्रिविधेत्यर्थः, तद्भाव इति तद्भावशुद्धिः आदेशत इति आदेशभावशुद्धिः प्राधान्यतश्चेति प्राधान्यभावशुद्धिश्च, तत्र तद्भावशुद्धिः अनन्ये त्यनन्यभावशुद्धिस्तद्भावशुद्धिः, यो भावोऽन्येन भावेन सहासंयुक्तः सन् शुद्धो भवति बुभुक्षितादेरन्नाद्यभिलाषवदसौ तद्भावशुद्धिः, आदेशे मिश्रा भवति शुद्धिस्तदन्यानन्यविषयेत्यर्थः, एतदुक्तं भवति- आदेशभावशुद्धिर्द्विविधा- अन्यत्वेऽनन्यत्वे च, अन्यत्वे यथा शुद्धभावस्य साधोर्गुरुः अनन्यत्वे शुद्धभाव इति गाथार्थः / / 286 ॥प्रधानभावशुद्धिमाह नि०-दसणनाणचरित्ते तवोविसुद्धी पहाणमाएसो। जम्हा उ विसुद्धमलो तेण विसुद्धो हवइ सुद्धो॥२८७॥ दर्शनज्ञानचारित्रेषु दर्शनज्ञानचारित्रविषया तथा तपोविशुद्धिःप्राधान्यादेश इति यदर्शनादीनामादिश्यमानानां प्रधानंसा प्रधानभावशुद्धिः, यथा दर्शनादिषु क्षायिकाणि ज्ञानदर्शनचारित्राणि, तपःप्रधानभावशुद्धिः- आन्तरतपोऽनुष्ठानाराधनमिति / कथं पुनरियं प्रधानभावशुद्धिरिति?, उच्यते, एभिर्दर्शनादिभिः शुद्धेर्यस्माद्विशुद्धमलो भवति साधुः, कर्ममलरहित इत्यर्थः, तेन च मलेन विशुद्धो मुक्तो भवति सिद्ध इत्यतः प्रधानभावशुद्धिर्यथोक्तान्येव दर्शनादीनीति गाथार्थः / / 287 / / उक्ताशुद्धिः, इह च भावशुद्ध्याऽधिकारः, सा च वाक्यशुद्धेर्भवतीत्याह // 331 //