________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 329 // नि०- सव्वावि असा दुविहा पज्जत्ता खलु तहा अपज्जत्ता / पढमा दो पज्जत्ता उवरिल्ला दो अपज्जत्ता / / 278 // सर्वाऽपि च सा सत्यादिभेदभिन्ना भाषा द्विविधा- पर्याप्ता खलु तथाऽपर्याप्ता, पर्याप्ता या एकपक्षे निक्षिप्यते सत्या वा मृषा वेति तद्व्यवहारसाधनी, तद्विपरीता पुनरपर्याप्ता, अत एवाह- प्रथमे द्वे भाषे सत्यामृषे पर्याप्ते, तथास्वविषयव्यवहारसाधनात्, तथा उपरितने द्वे सत्यामृषाऽसत्यामृषाभाषे अपर्याप्ते, तथास्वविषयव्यवहारासाधनादिति गाथार्थः // 278 // उक्ता द्रव्यभावभाषा, साम्प्रतं श्रुतभावभाषामाह नि०-सुअधम्मे पुण तिविहा सच्चा मोसा असच्चमोसा अ।सम्मद्दिट्ठी उसुओवउत्तु सो भासई सच्चं // 279 // श्रुतधर्म इति श्रुतधर्मविषया पुनस्त्रिविधा भवति भावभाषा, तद्यथा- सत्या मृषा असत्यामृषा चेति, तत्र सम्यग्दृष्टिस्तु सम्यग्दृष्टिरेव श्रुतोपयुक्त इत्यागमे यथावदुपयुक्तो यः स भाषते सत्यं आगमानुसारेण वक्तीति गाथार्थः // 279 // नि०- सम्मद्दिट्ठी उसुअंमि अणुवउत्तो अहेउगंचेव / जंभासइ सा मोसा मिच्छादिट्ठीवि अतहेव // 28 // सम्मद्दिट्ठी सम्यग्दृष्टिरेव सामान्येन श्रुते आगमे अनुपयुक्तः प्रमादाद्यत्किंचिद् अहेतुकं चैव युक्तिविकलं चैव यद्भाषते तन्तुभ्यः पट एव भवतीत्येवमादि सा मृषा, विज्ञानादेरपि तत एव भावादिति / मिथ्यादृष्टिरपि तथैवे त्युपयुक्तोऽनुपयुक्तो वा यद्भाषतेसा मृषैव, घुणाक्षरन्याय(यात्)संवादेऽपि सदसतोरविशेषाद्यदृच्छोपलब्धेरुन्मत्तवदिति गाथार्थः / / 280 // नि०- हवइ उ असच्चमोसा सुअंमि उवरिल्लए तिनाणंमि।जं उवउत्तो भासइ एत्तो वोच्छं चरित्तंमि॥२८१॥ भवति तु असत्यामृषा श्रुते आगम एव परावर्तनादि कुर्वतस्तस्यामन्त्रण्यादिभाषारूपत्वात्तथा उपरितने अवधिमनःपर्यायकेवललक्षणे त्रिज्ञान इति ज्ञानत्रये यदुपयुक्तो भाषते सा असत्यामृषा, आमन्त्रण्यादिवत् तथाविधाध्यवसायप्रवृत्तेः, इत्युक्ता सप्तममध्ययनं वाक्यशुद्धिः, नियुक्ति: 278 असत्यामृषाभाषा। नियुक्तिः 279-280 श्रुतभावभाषा। नियुक्तिः 281 शुद्धिनिक्षेपाः। // 329 //