________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 328 // सप्तममध्ययनं वाक्यशुद्धिः, नियुक्तिः 276-277 असत्यामृषाभाषा। कस्मिंश्चित् प्रयोजने सहायांस्त्वरयन् परिणतप्राये वासर एव रजनी वर्तत इति ब्रवीति, अद्धद्धमिश्रा च दिवसरजन्येकदेशः अद्धद्धोच्यते, तद्विषया सत्यामृषा यथा कस्मिंश्चित् प्रयोजने त्वरयन् प्रहरमात्र एवमध्याह्न इत्याह। एवं मिश्रशब्दः प्रत्येकमभिसंबध्यत इति गाथार्थः // 275 / / उक्ता सत्यामृषा, साम्प्रतमसत्यामृषामाह नि०- आमंतणि आणवणी जायणि तह पुच्छणी अपनवणी। पच्चक्खाणी भासा भासा इच्छाणुलोमा अ॥२७६॥ __ आमन्त्रणी यथा हे देवदत्त इत्यादि, एषा किलाप्रवर्तकत्वात्सत्यादिभाषात्रयलक्षणवियोगतस्तथाविधदलोत्पत्तेरसत्यामृषेति, एवमाज्ञापनी यथेदं कुरु, इयमपि तस्य करणाकरणभावतः परमार्थेनैकत्राप्यनियमात्तथाप्रतीते: अदुष्टविवक्षाप्रसूतत्वादसत्यामृषेति, एवं स्वबुद्ध्याऽन्यत्रापि भावना कार्येति / याचनी यथा भिक्षां प्रयच्छेति, तथा प्रच्छनी यथा कथमेतदिति, प्रज्ञापनी यथा हिंसाप्रवृत्तो दुःखितादिर्भवति, प्रत्याख्यानी भाषा यथाऽदित्सेति भाषा, इच्छानुलोमा च यथा केनचित्कश्चिदुक्तः साधुसकाशं गच्छाम इति, स आह- शोभनमिदमिति गाथार्थः / / 276 // नि०- अणभिग्गहिआ भासा भासा अअभिग्गहमि बोद्धव्वा ।संसयकरणी भासा वायड अवायडा चेव // 277 // अनभिगृहीता भाषा अर्थमनभिगृह्य योच्यते डित्थादिवत्, भाषा चाभिग्रहे बोद्धव्या- अर्थमभिगृह्य योच्यते घटादिवत्, तथा संशयकरणी च भाषा-अनेकार्थसाधारणा योच्यते सैन्धवमित्यादिवत्, व्याकृता- स्पष्टा प्रकटा देवदत्तस्यैष भ्रातेत्यादिवत्, अव्याकृता चैव-अस्पष्टाऽप्रकटार्थाबालकादीनांथपनिकेत्यादिवदिति गाथार्थः // 277 // उक्ता असत्यामृषा, साम्प्रतमोघत एवास्याः प्रविभागमाह // 328 //