________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 327 // मृषा सत्यामृषाभाषायाः दशप्रकाराः। प्रभृतय आहुः-नष्टो गोलक इति, लोभनिसृता वणिक्प्रभृतीनामन्यथाक्रीतमेवेत्थमिदं क्रीतमित्यादि, प्रेमनिसृता अतिरक्तानां सप्तममध्ययनं दासोऽहं तवेत्यादि, द्वेषनिसृता मत्सरिणां गुणवत्यपि निर्गुणोऽयमित्यादि, हास्यनिसृता कान्दर्पिकानां किंचित्कस्यचित्संबन्धि वाक्यशुद्धिः, नियुक्ति:२७५ गृहीत्वा पृष्ठानांन दृष्टमित्यादि, भयनिसृता तस्करादिगृहीतानां तथा तथा असमञ्जसाभिधानम्, आख्यायिकानिसृता तत्प्रतिबद्धोऽसत्प्रलापः, उपघातनिसृता अचौरे चौर इत्यभ्याख्यानवचनमिति गाथार्थः / / २७४॥उक्ता मृषा, साम्प्रतं सत्यामृषामाह- भाषायाः। नि०- उप्पन्नविगयमीसग जीवमजीवे अजीवअज्जीवे। तहऽणंतमीसगा खलु परित्त अद्धा अअद्धद्धा // 275 // उत्पन्नविगतमिश्रके ति उत्पन्नविषया सत्यामृषा यथैकं नगरमधिकृत्यास्मिन्नद्य दश दारका उत्पन्ना इत्यभिदधतस्तन्न्यूनाधिकभावे, व्यवहारतोऽस्याः सत्यामृषात्वात्, श्वस्ते शतं दास्यामि इत्यभिधाय पञ्चाशत्स्वपि दत्तेषु लोके मृषात्वादर्शनात्, अनुत्पन्नेष्वेवादत्तेष्वेव (च) मृषात्वसिद्धेः, सर्वथा क्रियाभावेन सर्वथा व्यत्ययादित्येवं विगतादिष्वपि भावनीयमिति, तथा च विगतविषया सत्यामृषा यथैकं ग्राममधिकृत्यास्मिन्नद्य दश वृद्धा विगता इत्यभिदधतस्तन्न्यूनाधिकभावे, एवं मिश्रका सत्यामृषा उत्पन्नविगतोभयसत्यामृषा, यथैकं पत्तनमधिकृत्याहास्मिन्नद्य दश दारका जाता दश च वृद्धा विगता इत्यभिदधतस्तन्न्यूनाधिकभावे, जीवमिश्रा-जीवविषया सत्यामृषा यथा जीवन्मृतकृमिराशौ जीवराशिरिति, अजीवमिश्रा च अजीवविषया सत्यामृषा यथा तस्मिन्नेव प्रभूतमृतकृमिराशावजीवराशिरिति, जीवाजीवमिश्रेति-जीवाजीवविषया सत्यामृषा यथा तस्मिन्नेव। जीवन्मृतकृमिराशौ प्रमाणनियमेनैतावन्तो जीवन्त्येतावन्तश्च मृता इत्यभिदधतस्तन्न्यूनाधिकभावे / तथानन्तमिश्रा खल्वि ति // 327 // अनन्तविषया सत्यामृषा यथा मूलकन्दादौ परीतपत्रादिमत्यनन्तकायोऽयमित्यभिदधतः, परीतमिश्रा-परीतविषया सत्यामृषा यथा अनन्तकायलेशवति परीतम्लानमूलादौ परीतोऽयमित्यभिदधतः। अद्धामिश्रा- कालविषया सत्यामृषा यथा कश्चित् /