SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 326 // सप्तममध्ययनं वाक्यशुद्धिः, नियुक्ति: 273 सत्या भाषा। नियुक्ति:२७४ मृषाभाषायाः। सत्यामृषाभाषायाः दशप्रकाराः। नि०- जणवयसम्मयठवणा नामे रूवे पडुच्च सच्चे ।ववहारभावजोगे दसमे ओवम्मसच्चे अ॥२७३॥ सत्यं तावद्वाक्यं दशप्रकारं भवति, जनपदसत्यादिभेदात्, तत्र जनपदसत्यं नाम नानादेशभाषारूपमप्यविप्रतिपत्त्या यदेकार्थप्रत्यायनव्यवहारसमर्थमिति,यथोदकार्थे कोङ्कणकादिषु पयः पिच्चमुदकं नीरमित्याद्यदुष्टविवक्षाहेतुत्वान्नानाजनपदेष्विष्टार्थप्रतिपत्तिजनकत्वाद्व्यवहारप्रवृत्तेः सत्यमेतदिति, एवं शेषेष्वपि भावना कार्या। संमतसत्यं नाम-कुमुदकुवलयोत्पलतामरसानां समाने पङ्कसंभवे गोपादीनामपि संमतमरविन्दमेव पङ्कजमिति / स्थापनासत्यं नाम अक्षरमुद्राविन्यासादिषु यथा माषकोऽयं कार्षाषणोऽयंशतमिदंसहस्रमिदमिति।नामसत्यं नाम कुलमवर्धयन्नपि कुलवर्द्धन इत्युच्यते धनमवर्धयन्नपि धनवर्द्धन इत्युच्यते अयक्षश्च यक्ष इति।रूपसत्यं नाम अतद्गुणस्य तथारूपधारणं रूपसत्यम्, यथा प्रपञ्चयतेः प्रव्रजितरूपधारणमिति / प्रतीत्यसत्यं नाम यथा अनामिकाया दीर्घत्वं ह्रस्वत्वं चेति, तथाहि- अस्यानन्तपरिणामस्य द्रव्यस्य तत्तत्सहकारिकारणसंनिधानेन तत्तद्रूपमभिव्यज्यत इति सत्यता। व्यवहारसत्यं नाम दह्यते गिरिर्गलतिभाजनमनुदरा कन्या अलोमा एडकेति गिरिगततृणादिदाहे व्यवहारः प्रवर्तते तथोदके च गलति सति तथा संभोगजबीजप्रभवोदराभावे च सति तथा लवनयोग्यलोमाभावे सति / भावसत्यं नाम शुक्ला बलाका, सत्यपि पञ्चवर्णसंभवेशुक्लवर्णोत्कटत्वाच्छुक्लेति।योगसत्यं नाम छत्रयोगाच्छत्री दण्डयोगादण्डीत्येवमादि। दशममौपम्यसत्यं च, तत्रौपम्यसत्यं नाम समुद्रवत्तडाग इति गाथार्थः // 273 // उक्ता सत्या, अधुना मृषामाह नि०-कोहे माणे माया लोभे पेजे तहेव दोसे / हासभए अक्खाइय उवघाए निस्सिआ दसमा // 274 // क्रोध इति क्रोधनिसृता यथा क्रोधाभिभूतः पिता पुत्रमाह-न त्वं मम पुत्रः, यद्वा क्रोधाभिभूतो वक्ति तदाशयविपत्तितः सर्वमेवासत्यमिति, एवं माननिसृता मानाध्मातः क्वचित्केनचिदल्पधनोऽपि पृष्ट आह-महाधनोऽहमिति, मायानिसृता मायाकार // 326 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy