________________ श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् // 325 // नि०- दव्वे तिविहा गहणे अनिसिरणे तह भवे पराघाए। भावेदव्वे असुए चरित्तमाराहणी चेव॥२७१ // सप्तममध्ययन द्रव्य इति द्वारपरामर्शः, द्रव्यभाषा त्रिविधा- ग्रहणे च निसर्गे तथा भवेत्पराघाते / तत्र ग्रहणं भाषाद्रव्याणां काययोगेन यत् सा | वाक्यशुद्धिः, * नियुक्ति: 271 ग्रहणद्रव्यभाषा, निसर्गस्तेषामेव भाषाद्रव्याणांवाग्योगेनोत्सर्गक्रिया, पराघातस्तु निसृष्टभाषाद्रव्यैस्तदन्येषां तथापरिणामा द्रव्यभावपादनक्रियावत्प्रेरणम्, एषा त्रिप्रकाराऽपि क्रिया द्रव्ययोगस्य प्राधान्येन विवक्षितत्वात् द्रव्यभाषेति।भाव इति द्वारपरामर्शः, भाषा। नियुक्तिः 272 भावभाषा त्रिविधैव, द्रव्ये च श्रुते चारित्र इति, द्रव्यभावभाषा श्रुतभावभाषा चारित्रभावभाषा च, तत्र द्रव्यं प्रतीत्योपयुक्तैर्या सत्या भाषा। भाष्यते सा द्रव्यभावभाषा, एवं श्रुतादिष्वपि वाच्यम्, इयं त्रिप्रकारापि वक्त्रभिप्रायात्तव्यभावप्राधान्यापेक्षया भावभाषा, इयं चौघत एवाराधनी चैवेति, द्रव्याद्याराधनात्, चशब्दाद्विराधना चोभयं चानुभयं च भवति, द्रव्याद्याराधनादिभ्य इति / आह- इह द्रव्यभाववाक्यस्वरूपमभिधातव्यम्, तस्य प्रस्तुतत्वात्, तत्किमनया भाषयेति, उच्यते, वाक्यपर्यायत्वाद्भाषाया न दोषः, तत्त्वतस्तस्यैवाभिधानादिति गाथासमुदायार्थः, अवयवार्थं तु वक्ष्यति // 271 // तत्र द्रव्यभावभाषामधिकृत्याराधन्यादिभेदयोजनामाह नि०- आराहणी उदव्वे सच्चा मोसा विराहणी होइ / सच्चामोसा मीसा असच्चमोसा य पडिसेहा॥२७२॥ आराध्यते-परलोकापीडया यथावदभिधीयते वस्त्वनयेत्याराधनी तु द्रव्य इति द्रव्यविषया भावभाषा सत्या, तुशब्दात् / द्रव्यतो विराधन्यपि काचित्सत्या, परपीडासंरक्षणफलभावाराधनादिति, मृषा विराधनी भवति, तव्यान्यथाभिधानेन तद्विराधनादिति भावः, सत्यामृषा मिश्रा, मिश्रेत्याराधनी विराधनी च, असत्यामृषा च प्रतिषेध इति नाराधनी नापि विराधनी, तद्वाच्यद्रव्ये तथोभयाभावादिति, आसांच स्वरूपमुदाहरणैः स्पष्टीभविष्यतीति गाथार्थः॥ 272 // तत्र सत्यामाह