________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 324 // सप्तममध्ययनं वाक्यशुद्धिः, नियुक्तिः 269 अभिसम्बन्धोवाक्यनिक्षेपश्च। नियुक्तिः 270 द्रव्यभाव भाषा। // अथ सप्तममध्ययनं वाक्यशुद्ध्याख्यम् // साम्प्रतं वाक्यशुद्ध्याख्यमध्ययनं प्रारभ्यते, अस्य चायमभिसंबन्धः- इहानन्तराध्ययने गोचरप्रविष्टेन सतास्वाचारं पृष्टेन तद्विदाऽपिन महाजनसमक्षं तत्रैव विस्तरतः कथयितव्य (आचार) इति, अपि त्वालये गुरवो वा कथयन्तीति वक्तव्यमित्येतदुक्तम्, इह त्वालयगतेनापि तेन गुरुणा वा वचनदोषगुणाभिज्ञेन निरवद्यवचसा कथयितव्य इत्येतदुच्यते, उक्तं च-सा वज्जणवज्जाणं वयणाणं जो न याणइ विसेसं / वोत्तुंपि तस्स ण खमं किमंग पुण देसणं काउं? // 1 // इत्यनेनाभिसंबन्धेनायातमिदमध्ययनम्, अस्य चानुयोगद्वारोपन्यासः पूर्ववत्तावद्यावन्नामनिष्पन्नो निक्षेपः, तत्र वाक्यशुद्धिरिति द्विपदं नाम, तत्र वाक्यनिक्षेपाभिधानायाह नि०- निक्खेवो अ (उ) चउक्को वक्के दव्वं तु भासदव्वाइं। भावे भासासद्दो तस्स य एगट्ठिआ इणमो॥२६९॥ निक्षेपस्तु चतुष्को नामस्थापनाद्रव्यभावलक्षणो वाक्ये वाक्यविषयः, तत्र नामस्थापने क्षुण्णे, द्रव्यं तु द्रव्यवाक्यं पुनर्जशरीरभव्यशरीरव्यतिरिक्तं भाषाद्रव्याणिभाषकेण गृहीतान्यनुच्चार्यमाणानि, भाव इति भाववाक्यं भाषाशब्दः भाषाद्रव्याणि शब्दत्वेन परिणतान्युच्चार्यमाणानीत्यर्थः। तस्य तु वाक्यस्य एकार्थिकानि अमूनि वक्ष्यमाणलक्षणानीति गाथार्थः / / 269 // नि०-वक्कं वयणं च गिरा सरस्सई भारही अगो वाणी। भासा पन्नवणी देसणी अवयजोग जोगे अ॥२७० // वाक्यं वचनं च गी: सरस्वती भारती च गौर्वाक् भाषा प्रज्ञापनी देशनी च वाग्योगो योगश्च, एतानि निगदसिद्धान्येवेति गाथार्थः / / 270 // पूर्वोद्दिष्टां द्रव्यादिभाषामाह®सावधानवद्ययोर्वचनयोर्यो न जानाति विशेषम् / वक्तुमपि न तस्य क्षमं किमङ्ग पुनर्देशनां कर्तुम् // 1 // // 324 //