________________ श्रीदश वैकालिक श्रीहारि० षष्ठमध्ययन महाचारकथा, सूत्रम् 67-68 उपसंहारः। वृत्तियुतम् 323 // त्तिबेमि ॥छटुंधम्मत्थकामज्झयणं समत्तं // 6 // उक्तः शोभावर्जनस्थानविधिः, तदभिधानादष्टादशं पदम्, तदभिधानाच्चोत्तरगुणाः, साम्प्रतमुक्तफलप्रदर्शनेनोपसंहरनाह'खवंति'त्ति सूत्रम्, क्षपयन्त्यात्मानं तेन तेन चित्तयोगेनानुपशान्तं शमयोजनेन जीवम्, किंविशिष्टा इत्याह- अमोहदर्शिनः अमोहं ये पश्यन्ति, यथावत्पश्यन्तीत्यर्थः, त एव विशेष्यन्ते- तपसि- अनशनादिलक्षणे रताः- सक्ताः, किंविशिष्टे तपसीत्याह- संयमार्जवगुणे संयमार्जवे गुणौ यस्य तपसस्तस्मिन्, संयमऋजुभावप्रधाने, शुद्ध इत्यर्थः, त एवंभूता धुन्वन्ति कम्पयन्त्यपनयन्ति पापानि पुराकृतानि जन्मान्तरोपात्तानि नवानि प्रत्यग्राणि पापानि न ते साधवः कुर्वन्ति, तथाऽप्रमत्तत्वादिति सूत्रार्थः // 67 // किंच-'सदोवसंत'त्ति सूत्रम्, सदोपशान्ताः सर्वकालमेव क्रोधरहिताः, सर्वत्राममा- ममत्वशून्याः अकिञ्चना हिरण्यादिमिथ्यात्वादिद्रव्यभावकिञ्चनविनिर्मुक्ताः स्वा- आत्मीया विद्या स्वविद्या- परलोकोपकारिणी केवलश्रुतरूपा तया स्वविद्यया विद्ययानुगता- युक्ताः, न पुनः परविद्यया इहलोकोपकारिण्येति, त एव विशेष्यन्ते- यशस्विनः शुद्धपारलौकिकयशोवन्तः, त एवंभूता ऋतौ प्रसन्ने परिणते शरत्कालादौ विमल इव चन्द्रमाः चन्द्रमा इव विमलाः, इत्येवंकल्पास्ते भावमलरहिताः सिद्धिं निर्वृति तथा सावशेषकर्माणो विमानानि सौधर्मावतंसकादीनि उपयान्ति सामीप्येन गच्छन्ति त्रातारः स्वपरापेक्षया साधवः, इति ब्रवीमीति पूर्ववत् ।उक्तोऽनुगमः, साम्प्रतं नयाः, तेच पूर्ववत् // 68 // व्याख्यातं षष्ठमध्ययनम् // // सूरिपुरन्दरश्रीमद्धरिभद्रसूरिविरचितायां दशवैकालिकबृहद्वत्तौ षष्ठमध्ययनं महाचारकथाख्यं समाप्तमिति॥ // 323 //